________________ विमलप्रभायां [ अभिषेक इदानीं यदा आमरणान्तं पञ्चानन्तर्य करोति, तदा पूर्वसाधितं मन्त्रं क्रोधकुलेऽक्षोभ्यसमाधिनाऽनेन मारणं कुर्याद् भगवानिति नेयार्थः। एवममार्गे' पतितानामभ्युद्धरणायं मृषावाक्यं वक्तव्यं न स्वार्थतः / एवमदत्तादानं प्रेतगतिगमननिवारणाय न स्वार्थतः। तथा परस्रोग्रहणं तिर्यग्गतिगमन निवारणाय न स्वार्थतः। समयान् पञ्चामृताद्यान् सेवयेत् / कुलग्रहविनाशाय। एवं कर्ममुद्राप्रसिद्धयर्थं डोम्ब्याद्याः स्त्रियो नावमन्येत। पुण्यसम्भाराय. महादानं ददाति। एवं खड्गकुले रत्नकुले पद्मकुले "चक्रकुले कतिकाकुले मन्त्रान् साधयित्वा सामर्थ्ययुक्तः सन् योगी सर्वं कुर्यात् / यथा लोके हास्यं न भवतीति नेयार्थः / ___ इदानीं नीतार्थ उच्यते-इह स्वशरीरे प्राणस्याति पातात् प्राणातिपातः कुलिशाकुले उष्णीषे निरोधं कुर्यात् / तेन प्राणातिपातेन योगी ऊर्ध्वरेता भवतीति नियमः। असत्यवाक्यं च खङ्गे इहासत्यं नामाप्रतिष्ठितबचनं नेयार्थेन / नीतार्थेन' सर्वसत्त्वरुतं वाक्यं योगपद्येन सत्त्वानां धर्मदेशकं तदेव हृदयेऽनाहतध्वनिरिति नियमः। रत्ने हायं परस्वम् / परस्वमिति इह परो वज्रसत्त्वः, तस्य स्वं रत्नं चिन्तामणिः, तस्यापहरणं रत्नकुले कण्ठेऽष्टमभूमिस्थाने इति नियमः / परकमलकुलेऽप्येव हार्या परस्त्री[218b]ति / परस्त्री महामुद्रा तस्यापहरणं परखोग्रहणम् / सा हार्या 'कमलकुले ललाटे दशमभूमिस्थाने ऊर्ध्वरेतसेति नियमः // 97 // मद्यं दीपाश्च बुद्धाः सुसकलविषयाः सेवनीयाश्च चक्रे डोम्ब्याद्याः कतिकायां सुसकलवनिता नावमन्याः खपद्मे / देयाः सत्त्वार्थहेतोः सघनतनुरियं न त्वया रक्षणीया बुद्धत्वं नान्यथा वै भवति कुलसुताऽनन्तकल्पैजिनोक्तम् // 98 // मखं दीपाश्च बुद्धाः सुसकलविषयाः सेवनीयाश्च चक्र इति। इह मद्यं सहजानन्दम् / दीपो गोक्वादिकानि पञ्चेन्द्रियाणि / अध्यात्मनि बुद्धाः पञ्चामृताश्चक्रे नाभिकमले सेवनीया भक्षणीयाः। बाह्ये विण्मूत्रशुक्राश्रा(स्रा)वः कर्तव्य इति नीतार्थः / डोम्ब्याघाः स्त्रियः कतिकायां गुह्यकमले नावमन्याः सपछे योनौ मन्थाने ब्रह्मचर्येणेति बाह्ये शुक्राच्यवनेनेति नियमः / देयाः सत्त्वार्थहेतोः सह धनेन पुत्रकलत्रादिभिः साधं स्वतनुः प्रदेया पुण्यसंभारार्थम् / एवं शीलसंभारार्थं स्त्रियो नावमन्याः खपझे। अतः 1. ग. मार्ग०। 2. ग. च. भो. छ. ग्जाति / 3. च. 'गमन' नास्ति / 4. ग. 'चक्राले' नास्ति / 5. ग. च. भो. पातः। 6. भो. mChog ( वरकमल ) / 7. च. सहजानन्दः। ८.ग.प.भो. 'इति' नास्ति /