________________ पटले, ९७.श्लो.] मण्डलाभिषेकमहोद्देशः यित्वा अभिषेकद्वयेन पुनर्दक्षिणावर्तेन शिष्यमानयित्वा पश्चिमवक्त्रे पञ्चसु जन्मस्थानेष्वनुज्ञाभिषेकेऽभिषिच्य अनेन मन्त्रेण-ॐ हं क्षः धर्मचक्रप्रवर्तक स्वाहेति / अभिषेकं दत्त्वा कायवाक्चित्तज्ञानव जाणि सप्ताभिषेकैविशोध्य ततः शिष्याय वजवचघण्टां करे दत्त्वा अमुकवज (जेति ?) ताभ्यामाचार्यो 'वज्र वज्रघण्टां प्रदाय प्रवरकरणया देशयेच्छुद्धधर्मम् / अनेन सार्द्धवृत्तद्वयेन / तद्यथा-"कुर्यात् प्राणातिपातं खलु कुलिशकुले" ( 3 / 97 ) इत्यादिना "मण्डले संप्रदेयाः" ( 399 ) इति पर्यन्तेन / इति सप्ताभिषेकविधि मण्डले कृत्वा ततः शिष्याय बुद्धाधिष्ठानं चिन्तयेत् / वज्राचार्यों ज्येष्ठकनिष्ठा) संवत्सरादिकमुद्घोषयति / इह अमुकसंवत्सरेऽमुककल्किराजधर्मदेशनायाममुकमासेऽमुकपूर्णिमायाममुकवारेऽमुकतिथावमुकनक्षत्रेऽमुकयोगेऽमुककरणे मया अमुक वज्राचार्येणामुकशिष्योऽभिषिक्तः। परमादिबुद्धे अन्ये वा' मण्डले सप्ताभिषेकैप्कृतो अनुज्ञातो मया . लौकिकसिद्धिसाधनायाकनिष्ठभुवनपर्यन्तं नायकत्वेन सर्वसत्त्वानां पुण्यज्ञानफलाप्तये / इति सप्ताभिषेकनियमः / इहान्यतन्त्रान्तरे यदुक्तं पञ्चतथागत विशुद्धया पञ्चाभिषेका बालजनावतारणे / वैरोचनेन उदकाभिषेको रत्नसम्भवेन मुकुट इति। तत्र पूर्वापरविरोधः। सर्व तन्त्रेषु मण्डले पुष्पमोक्षेण शिष्यस्य कुलदेवता। तया "मुकुटिन्या तत् कुल- मुद्रया तस्य सिद्धिरिति भगवतो नियमः। तेन नामसंगीत्याम् “पञ्चबुद्धात्ममुकुट:" (श्लो. 59 ) इति वचनाद् यत्र पुष्पं पतति स तथागतो मध्ये मौलौ भवति / न सर्वत्र रत्नसम्भवः / एवं लघुतन्त्रे तोयादिशुद्धिर्नास्ति, अपरविधेर्बलवत्त्वादिति / 10 15 20 T 398 इदानीं विशुद्धधर्मदेशनामाह-कुर्यात् प्राणातिपातमित्यादिना.। इह प्राणातिपातादयः समया द्विधा नेयार्थेन नीतार्थेन बाह्या आध्यात्मि[218a]काश्चेति। तत्र बाह्ये प्राणातिपातं भगवान् यत् कुर्यात्, "तत्पञ्चानन्तर्यकारिणां बुद्धशासनापकारिणां समयभेदिनामिति नियमः। तदेव पञ्चानन्तर्य पूर्वापरं ज्ञात्वा, / इह कश्चित्पूर्व / पञ्चानन्तर्यकारी पश्चात् पुण्यकर्ता भवति, चण्डाशोको धर्माशोकवत् / तस्मात्तस्या- . पकारतो नरकं भवति मन्त्रिणः, शुभाशुभकर्मापरिज्ञानात् / तेन यावत् पञ्चाभिज्ञा न भवन्ति, तावन्मन्त्रिणा क्रूरकर्म न कर्तव्यम्, शान्तिपुष्टिवश्याकृष्टिभिविना। एवं मृषावादः, परो(रा)पकारः, अदत्तादानमपि, परस्त्रीग्रहणमपि, समयसेवावर्णावर्णाभिगमनं स्वशरीरपर्यन्तं दानमपि न स्वार्थत इति / 25 ... 1. क. ख. ग. च. छ. ज्ञानवक्त्राणि / 2. ग. च. भो. 'वज्र' नास्ति / 3. ग. च. घोषयेत् / 4. क. ख. छ. अमुकाचार्येण, ग. च. अमुकाचार्यवज्रणा० / 5. सार्व. पाठः वाम। 6. ग. च. षेके व्या०। 7. ग. . भो. 'वि' नास्ति / 8. क. ०भिषेक, ख. भिषेको। 9. क. ख. छ. मुकुटा। 10. क. सर्वतन्त्र / 11. छ. मुक्तिन्या / 12. छ. ततः / 13. क. ख. ग. च. परोपकारतः। 14. ग. 'न' नास्ति / 15. भो. Ses Nes Paho (इति नियमः)।