________________ पटले, 103-105 श्लो.] प्रतिष्ठागणचक्रविधियोगचर्यामहोद्देशः मया सर्व सुगतमार्ग तव प्रसादात् 'हे श्रीगुरो ज्ञातमिति गुरौ निवेद्य प्रतिज्ञां करोति। इतः कालादारभ्य नान्यस्य गुरोराराधनं करोमि त्वां बुद्धबोधिसत्त्वान् विहायेति प्रतिज्ञारूढं शिष्यं दृष्ट्वा सर्वगुणान्वितम् / ततः पूर्वोक्त जयविजयघटाः, तैर्नागैर्वा अष्टभिश्चतुभिर्वा, घटेनैकेन वा त्रिधाधिपतित्वं देयम् / नागैभिक्षोर्वज्रधरस्य, श्रामणेरस्य चतुभिः, गृहस्थस्यैकेनेति। एवं पूर्वोक्तविधिना 5 ओषध्यादिभिर्यक्र्घटैः सेकः / अत्र मण्डलगृहबाह्ये समभूमिभागे चतुर्हस्ते पञ्चप्राकाररेखाः कृत्वा मध्ये हस्तद्वयं पद्ममष्टदलं पञ्चचिह्नरहितं विश्ववर्णम् / एतदेव पीठप'पट्टोपरि लिखेत् पञ्चरङ्गेस्तस्य पद्मस्य मध्ये। उपरि स्थापयित्वा भिक्षु स्थापयेत् / अष्टघटैर्जयविजय सहितैः / दशभिः कन्यकाभिः सुरूपाभिः सर्वालङ्कारयुक्ताभिरप्रसूताभिरष्टभिः। द्वाभ्यां कुमारिकाभ्यामक्षतयोनिभ्यां स्नापयेत्। शिरसि मौलिं बवा 10 1 पट्टमुद्रासहितामिति / भिक्षु वज्रधरं कुर्याद् दुष्टतर्जनतत्परम् / .. काषायदर्शनाद्यस्य देत्या यान्ति रसातलम् // इति / एवं नागैः श्रीमौलिबद्धे वसुदलकमल इति / पट्टबद्धे पुनः श्रामणेरस्य पढें 1400 बद्ध्वा समुद्रिकम् / चतुभिः कन्याभिः / द्वाभ्यां कुमारिकाभ्यां स्नापयेत् / रजःपद्मं 15 विहाय पञ्चरेखाः११ कृत्वा १२मध्यपटुं दत्त्वेति / एवं मध्यमाचार्यः। ततो मुद्रायामिति / [ 221b]अङ्गुष्ठवजं दत्वा, घटेनैकेन विजयेन, एकया कन्यया एकया कुमारिकया स्नापयेदिति / पञ्चरेखां विहायेति / सामान्ये"नालेपनेन रेखात्रयं कृत्वा सामान्यपीठं दत्त्वा स्नापयेद् अधमाचार्यः। एवं यथानुक्रमेण चतुर्हस्तं द्विहस्तम् एकहस्तं पीठं कृत्वा भिक्षुचेल्लकगृहस्थानामभिषेकं देयं वज्राचार्येण, वाचा १"अनुज्ञया वा तन्त्रदेशनार्थमिति नियमः // 104 // . अतः सेकविधि"रुच्यतेआदी चोपासको वे भवति हि सलिले श्रामणेरो घटे स्याद् भिक्षुर्गुह्याभिषेके स्थविर इति भवेदुत्तरे कारणे च / मुद्रां पट्टं च मौलिं ददति वरगुरुवज्रयज्ञोपवीतं तेषामाचार्यहेतोः स्वजिनकुलवशादेव मुद्रां विशुद्धाम् / / 105 // 20 25 1. च. 'हे' नास्ति / 2. च. पूर्वोक्ताः / 3. ग. च / 4. क. ख. छ. मध्य / 5. ख. ग. च. छ. पीठं / 6. क. ख. छ. पट्टे परि० / 7. ग. च. भो. स्नापयेत् / 8. ग. विजयघट / 9. ग. च. कन्याभिः / 10. भो. Dar dPyan Dan Phyag rGya Drug ( पट्टषण्मुद्रा)। 11. ग. रेखां / 12. ग. च. भो. मध्ये / 13. ग. च. विहाय / 14. क. ख. छ. न लयनेन / 15. क. ख. छ. अनुज्ञाया। 16. च. भो. विशुद्धि /