________________ T396 विमलप्रभायां [अभिषेक'त्यक्तेत्यादिना। इह यदा शिष्यः क्रोधदेवतादिभिरधिष्ठितः, तदाचार्येण प्रष्टव्यो यत्किञ्चित् कार्यमभिमतम् / ततः ॐ आःहूँ त्र्यक्षरैः पुष्पमभिमन्त्र्य शिरसि दातव्यम् / तदा आवेशं त्यजति / स्वस्थानं गच्छति / एवं त्यक्तावेशो भवति / ततस्त्यक्तावेशस्य पश्चात् शिरसि रक्षां जिनश्चेति वचनाद् ॐकारेण शिरसि, हृदये 'हूंकारेण, मूनि उष्णीषे हंकारेण, इत्युपायस्य स्वत्रिवज्रः कायवाक्चित्तैरिति / एवं नाभी होकारेण, कण्ठे आःकारेण, गुह्ये क्षःकारेण, इति प्रज्ञायाः स्वत्रिवज्र: कायवाक्चित्तैरिति। अत्रोभयोः कायवाक्चित्तवज्रविषये दी? हूँकारो वाग्वज्रम्, ह्रस्वचि(श्चि)त्तवज्रम् / अन्य[214b]त्र यत्रास्ति ततो रक्षां कृत्वा दत्ताङ्गे पीतवस्त्रस्य पिहितनयनस्य अत्र मण्डले शिष्यस्य प्रवेशोऽभिधेयः / प्रथमं संवृत्यर्थं तान्या बोधिपर्यन्तम् / संवृतिः 'पुण्यादिसंभारः, तस्यार्थं तदर्थं तानि प्रवरगतिगतानोति / प्रवरा भद्रकल्पे सप्तविपश्यादयः शाक्यमुनिपर्यन्तास्तथागताः, तेषां गति: पुण्यशीलज्ञानसंभारात्मिका, तस्यां गतानि प्रवरगतिगतान्येव देयानि तानि शिष्यायाचार्येणेतिः / तथागतनियमः // 92 // तत्र व्रतान्याबोधिपर्यन्तमाह भगवान्हिंसासत्यं परस्त्रीं त्यज स्वपरधनं मद्यपानं तथैव संसारे वज्रपाशः स्वकुशलनिधनं पापमेतानि पञ्च / यो यत्काले बभूव त्रिदशनरगुरुस्तस्य नाम्ना प्रदेया एषाज्ञा विश्वभर्तुर्भवभयमथनी पालनीया त्वयापि // 93 // हिंसाऽसत्यं परस्त्रीं त्यज स्वपरषनं मद्यपानं तथैवेति पञ्चव्रतानि नियम इत्यर्थः / कस्मात् ? °यतः संसारे वज्रपाशः 1 स्वकुशलनिधनमिमानि पापकर्माणीति पञ्च, अतो न कर्तव्यानीति नियमः। कस्य विश्वभर्तुरिति ? यो यत्काले बभूव तथागतस्त्रिदशनरगुरुस्तस्य नाम्ना प्रदेया, एषाऽऽज्ञा विश्वभर्तुभवभयमथनी पालनीया त्वयाऽपि, यथा कुलपुत्रैः कुलदुहितृभिः पालिता पुण्यसंभारायेति तथागतनियमात् / पञ्चशिक्षापदी // 93 // द्यूतं सावद्यभोज्यं कुवचनपठनं भूतदैत्येन्द्रधर्म गोबालस्त्रीनराणां त्रिदशनरगुरोः पञ्चहत्यां न कुर्यात् / द्रोहं मित्रप्रभूणां त्रिदशनरगुरोः संघविश्वासिनां च आसक्तिस्त्विन्द्रियाणामिति भुवनपतेः पञ्चविंशव्रतानि // 94 // 1. ख. ग. च. त्यक्त्वे / 2. क. ख. गतम् / 3. भो. हुँ। 4. ख. ग. त्यक्त्वा / 5. ग. तस्य / 6. भो. हुँ / 7. क. ख. छ. व्रतान्यो / 8. ग. पुण्याभिः / 9. भो. sPan Bya gSan Gyi Nor (त्यज्य परधनं)। 10. ग. यत् / 11. ग. पाशं / 12. क. ग. स्वकुल / 20