________________ पटले, 92-95 श्लो.] मण्डलाभिषेकमहोद्देशः [215a] ततो यदीच्छति तदाऽपराणि देयानि। तत्र द्यूतं सावधभोज्यं पूर्वोक्तं कुवचनपठनं भूतधर्म पितृकार्य यागकार्य वेदोक्तम् / दैत्यधर्म 'म्लेच्छधर्म न कुर्यादित्युपपापकानि पञ्च / तथा पूर्वापराणां दशानामादिमां पञ्चहत्यां न कुर्यात् सर्वदा, गोहत्या बालहत्या स्त्रीहत्या पुरुषहत्या। त्रिदशनरगुरोरिति प्रतिमास्तूपादे विसंवादोऽपरा हत्येति। तथा मित्रद्रोहम्, प्रभुद्रोहम्, बुद्धद्रोहम्, संघद्रोहम्, विश्वस्तद्रोहमिति पञ्च न कुर्यादिति / तथा आसक्तिस्त्विन्द्रियाणामिति रूपासक्तिः, शब्दासक्तिः, गन्धासक्तिः, रसासक्तिः, स्पर्शासक्तिरिति / भुवनपतेर्वजसत्त्वस्य नियमेन पञ्चविंशद् व्रतानि पालनीयानि शिष्यैरिति वज्राचार्येण देयानि सेककाले शिष्यायेति व्रतदाननियमः // 94 // इदानीं मण्डलप्रवेश उच्यतेश्रीमन्त्रेणाभिमन्त्र्य करकमलपुटे पुष्पमेकं प्रदेयं आदी भ्राम्य त्रिवारान् करकमलपुटान्मण्डले पुष्पमोक्षः / यस्मिन् स्थाने सुपुष्पं पतति नरपते तत्कुलं तस्य नूनं पश्चात् सप्ताभिषेकस्त्रिविध इह यथानुत्तरः संप्रदेयः // 15 // श्रीमन्त्रेणेत्यादिना / इह प्रथमं व्रतदानानन्तरम् / पीतवस्त्रेण रक्तवस्त्रेण वा सर्वकर्मणि मुखं बन्धयेत्, शान्त्यादिषु "वर्णेन देवतावर्णवर्णेन, सूक्ष्मवस्त्रेणानेन मन्त्रेण-ॐ द्वादशाङ्गनिरोधकारिणे 'हूँ फट् / ततः चक्षुरादीनि निरोधयित्वा कल्याणमित्र आदी भ्राम्य त्रिवारान् मण्डले / ततः पूर्वद्वारे आचार्यो नायकमूर्त्या स्थितः / यदि देवता मण्डले उत्थिता प्रत्यालीढादिपादेन, तदा आचार्य उत्थितः शिष्याय सेकं ददाति / अथ निषण्णा, तदा निषण्णो ददाति। ततः कल्याणमित्रेण समर्पितस्य शिष्यस्य शिरसि शङ्खोदकेन प्रोक्षणं कृत्वा ॐ आः हमिति त्र्यक्षरैः पुष्पमेकं सप्ताभिमन्त्रि[215b]तम्, तस्य करकमलपुटे आसमन्ताद् देयं पुष्पाञ्जलिविशुद्धया। ततः करकमलपुटाद बाह्ये मण्डलस्य जयकलशोपरि पुष्पमोक्षः पूर्वोक्तनियमेन नेत्रपुट योगपद्येन छोटयेत् / अथ प्राक् पुष्प मोक्षं कृत्वा पश्चात् छोटयेद् अनेन मन्त्रेणॐ दिव्येन्द्रियाण्युद्घाटय स्वाहा इति। नेत्रोद्घाटनं कृत्वा यस्मिन् स्थाने सुपुष्पं त्र्यक्षराभिमन्त्रितं पतति, तत्रस्था देवता तस्य कुलदेवता भवति / 'तया कर्ममुद्रासिद्धिरिति नियमः / ततस्तस्य कुलदेवतां दर्शयित्वा पश्चात् सप्ताभिषेक उदकादिकः, त्रिविध इह यथा कलशादिकः। "तथा कर्ममुद्रां पूजयित्वा अनुत्तरो वक्ष्यमाणः संप्रदेय इत्याचार्यस्य तथागतनियमः // 95 // 1. ग. 'म्लेच्छधर्म' नास्ति / 2. क. दिमा। 3. ग. 'स्त्रीहत्या' नास्ति / 4. क. देवीं / 5. ग. च. भो. 'वर्णेन' नास्ति / 6. भो. हुँ / 7. ग. 'मण्डले' नास्ति / 8. भो. हैं / 9. क. ख. 'कर' नास्ति / 10. ग. बाह्य / 11. च. भो. पटं / 12. ग. च. भो. क्षेपं / 13. क. ख. मया / 14. च. भो. तत्र / ___20 25 -