________________ पटले, 89-92 श्लो.] मण्डलाभिषेकमहोद्देशः वह्नयावेशेन दाहं व्रजति। इह यदा पाण्डराधिष्ठितो भवति, तदा यं स्पृशति तं दहतीति / 'मारुतावेशेनाधिष्ठितः शोषमेवं प्रयाति / यमालिङ्गयति तमुच्चाटयत्यनेकयोजनानीति। एवं शून्यावशरदृश्यो भवति। यं स्पृशति स एवादृश्यो भवति / भुवितले खेचरत्वं प्रयातीति नियमः। एवं सर्व प्रकृतिगुणवशाद वेदितम् / इह यदा दिव्यचक्षुरावेशो भवति, तदा 'दिव्यरूपं पश्यति, अदृष्टद्रव्यं च / यदा दिव्यश्रोतावेशो भवति, तदाऽश्रुतं शब्दं यत्सत्त्वानां तच्छृणोति / यदा दिव्यमनआवेशो भवति, तदा परचित्तज्ञानं जानाति। यदा दिव्यकायेन्द्रियावेशो भवति, तदा दिव्यं स्पर्श गह्णाति, पूर्वावासं जानाति / यदा दिव्यजिह्वावेशो भवति, तदा दिव्यरसास्वादं भवति / तेनाकाशऋद्धिर्भवति / यदा दिव्यघ्राणावेशो भवति, तदा दिव्यगन्धं गृह्णाति / तेन सर्वबुद्धाधिष्ठानं भवतीति नियमः // 10 // इदानी दिव्यावेशानामुत्पादलक्षणमुच्यतेआवेशो मन्त्रिणां वै भवति नरपते भावनाया बलेन सेवाभेदैः कदाचिद् बहुविधसमयमन्त्रजापादिभिश्च / बुद्धेरास्वाद्यमानैः क्वचिदमृतवशान्मण्डले भव्यसूनोनं स्वाधिष्ठानहीना बहुविविधभवैर्मन्त्रिणां सिद्धिरस्ति // 91 // [214a] 19 आवेश 'इत्यादिना। इह दिव्यावेशो यः स मन्त्रिणामाचार्याणां वै एकान्तं भवति भावनाया बलेन पूर्वसेवाभेदैरिति नानाविधिभिः, बहुविधसमय रक्षितैबर्बोधिचित्तबिन्द्वादिभिः, तथा मन्त्रजापादिभिश्चावेशो भवति। अन्यथा न भवतीति / कदाचिद् गुरुपर्वक्रमेण विशुद्धशिष्यस्य बुद्धरास्वाधमानः क्वचिदमृतवशाद मण्डले भव्यसूनोभवति। नरपते इत्यामन्त्रणम्। न स्वाधिष्ठानहीना बहुविविध- 20 भवमन्त्रिणां सिद्धिरस्ति / अकनिष्ठभुवनपर्यन्तं यावत् तथागतैरुक्ता लौकिकोति / * इहावेशो दिव्यानाम् / अन्येऽनन्तावेशा भूतराक्षसचेटकादीनाम्। तेषां लक्षणं 'पञ्चमपटले ज्ञानसिद्धौ वक्तव्यम्, गुर्वा ज्ञालक्षणमपि। अत्र मण्डलप्रवेशे "तेन नोक्तं तदिति भगवतो नियमः // 91 // इदानीमावेशोपशमनादिकमुच्यतेत्यक्तावेशस्य पश्चाच्छिरसि च हृदये मूनि नाभौ च कण्ठे गुह्ये रक्षां जिनश्च स्वकुलभुविगतः कारयेत् स्वत्रिवज्रः / दत्ताङ्गे पीतवस्त्रस्य पिहितनयनस्यात्र शिष्यस्य वेशः संवृत्यर्थं व्रतानि प्रवरगतिगतान्येव देयानि तानि // 12 // १.भो.CisTe ( यदि ) मारु०, च. अथ मा०। 2. ग. नाविष्टः। 3. च. दिव्यं / 4. ग. च. दिव्यं / 5. छ. इत्यादि / 6. च. व्यरक्षते० / 7. ग. रिति / ८.छ. 'पञ्चम' नास्ति / 9. ग. ज्ञानलक्षणामिति / 10. ग. तेनोक्तं /