________________ 86 10 विमलप्रभायां [अभिषेकसौम्येति क्रोध'राजावेशनियमः। अत्रापि विस्तरेणापरदशक्रोधानां दशप्रकृतयो मुद्राबन्धेन वेदितव्याः। येन चिह्नन यस्योत्पादः, सा च तस्य हस्तमुद्रा भवति / स तया ज्ञातव्य इति नियमः // 88 // इदानीं क्रोधराजस्य बोधिसत्त्वस्य वा कायाद्यधिष्ठानमुच्यतेकायावेशेन योगी प्रकृतिगुणवशात् कायकृत्यं करोति वागावेशेन वादी भवति च विजयी देवनागासुराणाम् / चित्तावेशेन सर्व परहृदयगतं ज्ञायते भूतभव्यं ज्ञानावेशेन बुद्धो भवति गुरुगुरुश्चद्धिमानेकशास्ता / / 89 // कायेत्यादिना। इह कायावेशेन योगी देवताकाय वज्रेणाधिष्ठितः सन् प्रकृतिगुणवशाद रौद्रशान्तस्वभावात् कायकृत्यं करोति शिष्यः। यथा क्रोधा बोधिसत्त्वाः कुर्वन्त्याकाशगमनम्, तथा शिष्यः करोति पातालगमनम्, मण्डलादिकमदृष्टं वर्तयति, पर्वतमुत्पाद(ट)यतीत्यादिकायकृत्यं करोति दिव्यदेवताकायवघेणाधिष्ठितः सन्निति / तथा वागावेशेन वादो त्रिभुवनविजयो देवनागासुराणां भवति / यथा मञ्जुश्रीस्तथा मूर्योऽपि शिष्यो देवतावाग्वत्रेणाधिष्ठितो भवतीति नियमः। तथा दिव्यदेवताचित्तावेशेन शिष्यः 'सर्व परहृदयगतं ज्ञायतेऽतीतानागतं वर्तमानमदृष्टं सर्वमिति चित्तावेशनियमः। अथ पूर्वजन्मवासनावशेन क्वचिज्ज्ञानावेशो भवति तदा मण्डले सिद्ध्यति। बुद्धो भवति गुरोरपि गुरुरिति पञ्चाभिज्ञालांभी दशभूमीश्वरो भवति / बुद्ध इत्युपचारवचनम् / ऋद्धिमानेकशास्ताप्येवम्। 'कायवाक्चित्तज्ञानाधिष्ठानलक्षणनियमः // 89 // [213b]] इदानी लोचनाद्यधिष्ठानमुच्यतेभूम्यावेशेन योगी भवति गिरिसमोऽम्बोश्च शीतं प्रयाति वह्नयावेशेन दाहं व्रजति च मरुता शोषमेवं प्रयाति / शून्यावेशैरदृश्यो भवति भुवितले खेचरत्वं प्रयाति एवं रूपादिसर्व प्रकृतिगुणवशाद् वेदितव्यं क्रमेण // 90 // भूमीत्यादिना / इह "यदा शिष्यो भूम्यावेशेन योगी अधिष्ठितः 'सन् गिरिसमो भवति, अनेकशतमनुष्यश्चालयितुं न शक्यत इति / अम्बोश्च शीतं प्रयाति / इह मामक्याधिष्ठितो योगी यं दाहज्वरेणापि ग्रस्तमालिङ्गयति, तं 'ज्वरापगतं करोतीति / १.ग, च. 'राजा' नास्ति / 2. ग. वज्राधि०। 3. क. ग. छ. सर्व / 4. ग. च. - इति काय। ५.ग. यः / 6. ग. च. 'सन' नास्ति / 7. च. 'य' नास्ति / 8. ग. च. ज्वरमप० / /