________________ 85 T395 पटले, 86-88 श्लो.] मण्डलाभिषेकमहोद्देशः इति प्रणिधाने कृते सति, अभिषेकाय प्रार्थितो गुरुः, हृष्टतुष्टः सन् शिष्यं स्नातं गन्धानुलिप्तं वतनियमयुतं पूर्वभूम्यां मण्डलबाह्ये निवेश्य सिद्धयर्थ दन्त[212b] काष्ठं पूर्वोक्तविधिना जिनवरकुलिशैरिति-ॐ आःहूँ-एभिः सप्ताभिमन्त्रितं कृत्वा तत उल्लालयित्वा मण्डले क्षिपेत / येन दिग्विभागेन पतति तत्कर्मप्रसरं तस्य सिद्धयति। पूर्वोक्तं शान्त्यादि कमष्टदिक्षु / ततो मुखे चुलुकत्रयमुदकस्य प्रक्षिप्य शुद्धि कृत्वा मण्डले काण्डपटं दत्त्वा पूर्वभूम्या मानयित्वा शिष्यम्, ततस्तस्य जिह्वायां पञ्चामृतं दद्यात् / जिनवरसमयैः पञ्चामृतपञ्चप्रदीपैः। पूर्व धूपं साधयित्वा तदेव धूपं देवता वेशनाथं / तत्र मन्त्रं हूंकारमेकम् / अर लपिसहितमिति / ॐ अ र र र र ल ल ल ल वज्रावेशय हूँ, इत्यनेन मन्त्रेण चोदनं कृत्वा क्रोधभर्तुः क्रोधावेशनमित्यर्थः / अस्य कोटिजापेन दशलक्षहोमेन 1 पूर्वसेवां कुर्यात् / ततः सिद्धयति। "स्मरणमात्रेण क्रोधावेशं करोति / तत्रेदं लक्षणं भवति / १२तद्यथा १अष्टाशीति[त]मेन वृत्तेन उक्तम् // 87 // 5 / ततः 10 आविष्टः क्रोधराजः प्रहरणसुकरेस्तर्जयन्मारवृन्दं प्रत्यालीढादिपादेर्बहुविधकरणैर्नृत्यते वजनृत्यम् / हास्यं हूँकारमिश्रं भयदमपि रिपोवंज्रगीतं करोति निर्लज्जो निर्विशङ्को भवति गुणवशाद्देवतान्या च सौम्या // 88 // 15 आविष्टः क्रोधराजः प्रहरणसुकरैस्तजयन् मारवृन्दमिति / "इति शिष्ये क्रोधराज आविष्टः सन् प्रहरणशोभितकरैः स्थावरं"जङ्गमं यं हन्ति शतचूर्णं करोति, यं तर्जयति तर्जन्या मारवृन्दं धर्मविहेठकं तं भूम्यां पातयति, निश्चेष्टतां नयति। तथा प्रत्यालोढादि"पावैः विविधकरणैर्नृत्यते वज्रनृत्यमिति / इह यः शिष्यः प्राक् किञ्चिन्नाट्यलक्षणं न जानाति, स एव क्रोधाविष्टः सन् वज्रनृत्यं करोति / अन्तरिक्षे बहुविधकरणैरिति नत्यते / अथ हास्यं करोति / तदा "हकारमिषं भयदमपि रिपोरिसमूहस्येति / तथा पूर्वमज्ञोऽसौ यः शिष्यः स क्रोधाविष्टो मनुष्यादीनामगम्यध्वनिना [113a] गीतं करोति। अनेकतन्त्रान्तरेषु यदुक्तमिति / अतः क्रोधराजाविष्टो निलंज्जो निर्विशङ्को * भवति गुणवशात् क्रोधस्वभावात् / देवतान्या च सौम्येति अथ लोचनादिदेवता 25 .. .. 1. क. ख. प्रणिधान / 2. भो. हूँ। 3. क. ख. उल्लानयित्वा / 4. ग. 'तत्' नास्ति / 5. ग. पूर्वोक्त / 6. भो. Si Ba La Sogs Pas Las (शान्त्यादिकर्ममष्ट)। ..7. क. ख. छ. मण्डने / 8. क. ख. मारयित्वा / 9. ग. देशना / 10. क. ख. पूर्व / 11. ग. ततः स्म० / 12. भो. 'तद्यथा' नास्ति / 13. क. ख. ग. च. छ. सप्ता० / 14. ग. च. इह / 15. ग. रज / 16. ग. च. भो. छ. तं शत० / 17. क. ख. ग. छ. भो. पदैः / 18. च. तीत्यन्त / 19. भो. हुँ। 20. ख. ग. अनेन / 21. च. न्तरे /