________________ [ अभिषेक विमलप्रभायां श्वेतं रक्तं च पीतं भवति कुलवशाद् व्यापकं भूमिभागे वाय्वग्न्यम्बुक्षितीनां इ ऋ उ ल नृपते योनयो देवतानाम् / / 81 / / इह पूर्वे चित्तवज्र व्यापकं भूमिभागे कृष्णवणं 'वायुविशुद्धया। उत्तरे कायवज्र उदक शुद्धया श्वेतम् / वाग्वज़ दक्षिणेऽग्निशुद्धया रक्तम्। स्वकुलपृथ्वीदिशिगतं पश्चिमे जानवज्र पोतम् / एवं राहुचन्द्रसूर्यकालाग्निशुद्धया चतुर्वक्त्रभेदेन भूमिभागः। अतो यथासंख्यं वायोर्योनिः इ / अग्नेोनिः ऋ। उदकस्य योनिः उ / क्षितेर्योनिः ल। योनयो वाय्वादीनां देवतानाम् / इकारादिस्वस्वबीजानि संस्कारवेदना[209b]संज्ञारूपस्वभावानि। अकारोऽनुक्तोऽपि आकाशयोनिर्विज्ञानस्कन्धलक्षण इति सर्वत्र नियमः, अ इ उ ऋ लु' इति प्रत्याहारपाठात् / सृष्टिक्रमेण उत्पत्तिक्रमेणेति नियमः॥ 81 // 10 15 इदानीं मुद्राबीजान्युच्यन्ते मुद्रणार्थम्ॐ आः हूँ च त्रिमुद्राः स्वहपदसहिता दीर्घभेदाच्च पञ्च .. ॐ आः हूँ होः स्ववक्त्राण्यपरमपि तथाऽनाहतं पञ्चमं स्यात् / साद्यं हकारषट्कं भवति रसपदैः श्रीषडङ्ग नमाद्यः फ्रेंकारो विश्वमातुर्भवति दशविधः कूटमन्त्रो जिनस्य // 82 // - इह कायमुद्रा ललाटे ॐकारः शुक्लः। कण्ठे आःकारो वाङ मुद्रा रक्तः / हृदये हूँकारः कृष्णः चित्तमुद्रा इति 'मुद्रा उपायस्य / प्रज्ञाया नाभौ स्वा। गुह्ये हा। आभ्यां सह पञ्च / यतः त्रिदशशशिपदे पञ्चचन्द्रचरणे उक्ताः, सूर्ये काल इति वचनात् / 'रविकात्रयमुक्तं दीर्घभेदादिति। छन्दोऽनुरोधात् मूले स्वह ह्रस्वः। ॐ१० कायवक्त्रम् / आः वाग्वक्त्रम् / हूँ चित्तवक्त्रम् / होः ज्ञानवक्त्रमिति / अपरमपि तथाऽनाहतं पञ्चमं येन नायको मुद्रितः। तदेव पञ्चाक्षरं महाशून्यमिति नियमः। तथा ११साद्यमिति आद्यैः षट्स्वरैः सार्धं १२हकारषट्कं भवति / रसपवैः षड्भिः साधं षडङ्गं नम आधेरिति / ॐ हल नमः। ॐ हूँ, स्वाहा। ॐ १३हकं वौषट् / ॐ ह्रीं हूँ ओं ह्रां वषट् / ॐ ह्रः फट-इति यथासंख्यं हृदयं शिरः शिखा कवचं नेत्रमस्त्रमिति पृथिव्यप्तेजोवायुशून्यज्ञानस्वरसहितो हूंकारमन्त्र एव 25 1. ग. च. वायुशुद्धया। 2. ग. विशुद्धया। 3. च. सूर्यपीतका० / 4. ग. इः ऋः उः ठः / 5. क. ख. ग. लुक् / 6. ग. 'मुद्रा' नास्ति / 7. ग. च. प्रज्ञायां / 8. छ. रविकाय / 9. क. ख. ग. च. छ. 'स्वह' नास्ति / 10. ग. च. भो. एवं ॐ / 11. क. साध्य / 12. ख. ग. च. हूँ। 13. क. है / 14. ग. च. भो. ह्रः।