________________ पटले, 81-84 श्लो.] मण्डलाभिषेकमहोद्देशः षडङ्गः। तथा 'फ्रकारो विश्वमातुर्बीज मन्त्रो जिनस्य कालचक्रस्य सप्रज्ञस्य ह क्ष म् ल व र इति / / 82 // हूँकारो ज्ञानबीजं हृदयमपि महाकूटमन्त्रः सवक्त्रः ह्रांकाराचं षडङ्गं युपहृदयमिदं कायवज्रादियुक्तम् / माला[210a]मन्त्रस्तथान्यो भवति बहुविधः कर्मभेदैरनेकैतिव्यो मण्डलेऽस्मिन् प्रकृतिगुणवशाद् देवतादेवतीनाम् // 83 / / तस्यैव भगवतः पृथगुत्पादाय हूँकारो ज्ञानबीजं प्रज्ञोपायपृथगुत्पादाय हृदयमपि तथा कूटमन्त्री जिनस्य पूर्वोक्तः, ॐ आः हूँ होः इति चतुर्वक्त्रसहितः / हांकाराद्यं षडङ्गमुपहृदयं भगवतः। ॐकारेणादिभूतेन युक्तं जापार्थम् / ॐ ह्राँ ह्रीं हं. हूं हल ह्रः इति सृष्टिक्रमेण सर्वकर्मसाधने / क्रूरे संहारक्रमेण" जाप' इति। मालामन्त्रस्तथान्यो भवति देवतादेवतीनाम्, स च बहुविधोऽनेकपदिको भवति / कर्मभेदैरनेकैतिव्यो मण्डलेऽस्मिन् कालचक्रे पृथिव्यादिप्रकृतिः, तद्गुणवशादिति वक्ष्यमाणे वक्तव्यम् / एवं सर्वतन्त्रान्तरेषु नियमः // 83 // इदानी देवतार्चनमुच्यतेरत्नहेमेन्दुपुष्पैर्बहुविविधपटैगन्धधूपप्रदीपैघण्टादर्शवितानविविधफलपताकादिभिर्नृत्यवाद्यैः / कृत्वा पूजां विचित्रामपरदश विधां चात्मशक्त्या यथोक्तामाचार्यस्याज्रिमूले ददति वरसुतो दक्षिणां शुद्धिहेतोः // 84 // 10 - 15 - * रत्तरित्यादिना / इह पूर्वोक्तविधिना देवतालम्बनं कृत्वा ततो ज्ञानचक्र समयचक्रेण सह एकीकृत्यार्घादिकं दत्त्वा पूर्वमन्त्रपदैः, ततोऽर्चनार्थं प्रथम गन्धं चन्दनादिकं गृहीत्वा अङ्गष्ठानामिकाभ्यां बाह्ये कृतमण्डले नायकादीनर्चयेत् / सर्वेषां नामपूर्व प्रणवं देयम् / अर्चने सर्वकर्मणि नमोऽन्ते नाम्नो भवति / प्रत्येककर्मणि पुष्ट्यादौ स्वाहान्तो वेदितव्य इति / इह सर्वकर्मण्यर्चनाय देवतानां मन्त्रपदानि / तद्यथा मूलतन्त्रे-ॐ बुद्धाय नमः। ॐ धर्माय नमः। ॐ संघाय नमः / ॐ वजसत्त्वाय नमः। ॐ प्रज्ञापारमितायै नमः। ॐ स्वाभाविककायाय नमः / ॐ धर्मकायाय नमः। ॐ सम्भोगकायाय नमः। ॐ निर्माणकायाय नमः। ॐ[210b] ज्ञानवजाय नमः। ॐ चित्तवज्राय नमः। ॐ वाग्वजाय नमः। ॐ कायवजाय T394 1. च. ॐ ल / 2. ग. च. ०दनाय / 3. भो. हुँ हो / 4. क. ख. ग. च. ॐ फ्रां फ्री है है हलं हः। 5. भो. "ह्रीं कारेण' इत्यधिकम् / 6. च. जप /