________________ 5 पटले, 79-81 श्लो.] मण्डलाभिषेकमहोद्देशः सर्वेषामित्यादिना / इह सर्वेषां 'मण्डले नायकानुनायकानाम् / नाम मन्त्रस्य पूर्व प्रणवं भवति, ॐकार इत्यर्थः। अनुक्तमन्त्राणामपि। सर्वत्र प्रणवं प्रथममिति विज्ञेयम् / होमे स्वाहान्तमन्त्रः। सर्वेषां नाममन्त्रो हृदयमुच्यते। स एव होमकार्ये स्वाहान्तो भवति / सर्वकर्मणि अर्चने नमोऽन्तो भवति स एवेति नियमः / जः हूँ वं हो अङ्कशाद्या इति / इह देवताऽऽवाहने जः कारेणाङ्कशं कुर्यात्, प्रवेशे हूँकारेण वज्रम्, बन्धने वकारेण पाशम्, तोषणे होकारेण वज्रघण्टामिति यथाक्रमरचिता वज्राङ्कशाद्याः। ततोऽघंदाने भवति नाममन्त्रावसाने नियमः // 79 // इदानीं 'पुष्ट्यादिकर्मभेदेन मन्त्रविधिरुच्यतेपुष्टौ स्वाहान्तमन्त्रो भवति नरपते शान्तिकेऽसौ नमोऽन्त आकृष्टौ वौषडन्तो भवति च वषडन्तश्च वश्ये तथैव / हूँकारान्तोऽभिचारे प्रकृतिगुणवशात् कीलनाद्ये फडन्तः श्वेतो रक्तश्च कृष्णो वरकनकनिभः कर्मभेदैश्च मन्त्रः // 80 // 20 पुष्टा[209a] वित्यादिना। इह सर्वत्र मन्त्रजापे होमे वा पुष्टौ ओंकारादिस्वाहान्तो मन्त्रो भवति / नरपते इति संबोधनम् / शान्तिकेऽसौ मन्त्रो नमोऽन्तः। स एवाकृष्टौ वौषडन्तो भवति च / स एव वषडन्तो वश्ये तथैव / हूँकारान्तोऽभिचारे विद्वेषोच्चाटने मारणे च। प्रकृतिगुणवशात् कीलनस्तम्भनमोहने फटकारान्तो भवति / अत्र प्रकृतिः पुष्टौ सार्द्रपृथ्वी प्रकृतिस्तेन स्वाहा / शान्तौ तोयः प्रकृतिः, नमः / आकृष्टौ अग्निः प्रकृतिः, वौषट् / वश्येऽग्निप्रकृतिः, वषट् / मारणोच्चाटने विद्वेषे वाय्वग्निप्रकृतिः हूँकारः। कीलनस्तम्भने मेरुपृथ्वीप्रकृतिः फटकारः / मोहनेऽपि वायुपृथ्वीप्रकृतिरिति / अथवा सर्वत्र मारणादिषु मोहनादिषु 'त्रिषु १°कर्मसु हूँफटकारान्तो मन्त्रजापः, १'होमोऽपि, अर्चनादिकमपि कर्तव्यं मन्त्रिणेति नियमः। देवतावर्णः शान्तौ पुष्टी श्वेतः। वश्यादौ रक्तः। मारणादौ कृष्णः। मोहनादौ पोतः। इति कर्मभेवश्च मन्त्री भवतीति नियमः // 80 // इदानी १२मण्डलभूमिविशुद्धिबीजान्युच्यन्तेपूर्वे श्रीचित्तवज्र कषणघननिभं चोत्तरे कायवज्रं / वाग्वजं दक्षिणे च स्वकुलदिशि गतं पश्चिमे ज्ञानवज्रम् / 1. ग. मण्डलनायिकानाम् / 2. क. ग. छ. नायिका० / 3. ग. 'नाम' नास्ति / 4-5. छ. हैं / 6. क. पुष्यादि / 7. छ. 'मन्त्रो' नास्ति / 8. क. ख. 'पृथ्वी' इत्यधिकम् / 9. ग. त्रिषु त्रिषु / 10. च. 'कर्मसु' नास्ति, छ. 'त्रिषु कर्मसु' नास्ति / 11. क. ग. च. होमे / 12. ख. च. मण्डले, ग. मण्डले भुवि /