________________ 78 विमलप्रभाया [ अभिषेक 10 स्पृष्टः / तत्र पूर्वजयकलशोपरि महाविजयकलशः, एकादशमः शङ्ख इति कलशनियमः। एवं शतसहस्र कलशेऽपि महाविजय शङ्खः। शान्तौ पुष्टौ सर्वकर्मणि च / क्ररकर्मणि कपालम् / वश्यादौ ताम्रम्, सुवर्णशुक्तिः। स्तम्भने सरावम् / मोहनाद्येऽपि। तत्र स्थापयित्वा कर्मानुरूपेण सूत्रैर्वेष्टयित्वा वस्त्रकण्ठान् कृत्वा आचार्येण सपल्लवमुखाः स्थापनीयाः। तत्र आचार्यः पूर्ववक्त्रस्थितो. वक्ष्यमाणसाधनविधिना पापदेशनादिकं कृत्वा मण्डलराजानी कर्मराजानी बिन्दुयोगं सूक्ष्मयोगं कृत्वा ततः प्रज्ञोपायोद्भतेः . कुलिशकमलजैरुद्गतैः क्रोधराजैरिति साधनो पायिकाविधिना जः हैं° व हो... एभिर्मन्त्रपदैः जःकारेणाकृष्य हूँकारेण प्रवेशयेत्, वंकारेण बन्धयेत् / होकारेण तोषयित्वा ज्ञानचक्रं रजोमण्डले समयमण्डलं ध्यात्वा तत्र समरसं करोति सेकहेतोः। ततः प्रतिष्ठापयित्वा पूर्वोक्तविधिनाचं दत्त्वा ॐ आःहूँ होः वैधातुकेश्वर कालचक्र अर्घ प्रतीच्छ सपरिवारस्त्वं भगवन् मे वरदो भव शिष्याणां च इत्यध्येष्याध मण्डलरजो. बाह्ये मण्डलं कृत्वा दापयेत् / ततोऽपरमण्डलं१3 विजयकलशाग्रतः 1 कृत्वा "हस्तमेकम्, "तत्र पूर्वोक्तगन्धादिकं पाद्यं प्रदापयेत् / एवं सर्वदिक्षु विदिक्षु प्रत्येक देवतानामपि नैवेद्यादिकं देयम् / सर्वदिक्षु रजोमण्डलबाह्ये रजोभूम्यां पुष्पादिकं न दातव्यम् / दत्ते रजोविलोपो भवति / प्रतिष्ठापितमण्डले" रजोविलोपात् स्तुपभेद इति / तेन मण्डलबाह्ये पूर्वद्वारे विजयकलशोपरि पुष्पक्षेपः कर्तव्यः कुलप२रीक्षार्थम् / अन्यथा सहस्रहस्तमण्डले कुतः पुष्पं पतिष्यति शिष्येण २१क्षिप्तम् / पूर्ववजाचिषं त्यक्त्वा वजज्वालापि तत्र सपाद हस्तशतं भवति / कथं तां लङ्घय[208b]त्वा देवताधिष्ठान विना कुलदिक्षु पुष्पं पतिष्यति / तस्माद्विजयकलशे पञ्चचिह्नानि कृत्वा तत्र पुष्पक्षेपो वक्ष्यमाणः कर्तव्यः। तेन गन्धादिकं २४मण्डलबाह्ये न रजोभूम्याम् / रजोमण्डलं भगवतः कायो वेदितव्य इति नियमः // 78 // T393 15 इदानी मन्त्रनियममाहसर्वेषां नाम पूर्व प्रणव इति भवेद् देवतादेवतीनां होमे स्वाहान्तमन्त्रो हृदयमपि तथैवार्चने वै नमोऽन्तः / जः हूँ व होऽङकुशाद्याः क्रमपरिरचितावाहने च प्रवेशे बन्धे तोषेऽर्घदाने भवति पुनरिदं गृह्ण गृह्णार्घक मे // 79 // 25 . 1. च. स्पृष्टाः। 2. ग. कलशोऽपि / 3. भो. Bum Pa ( कलश ) इत्यधिकम् / 4. ग. ताम्रसुवर्ण। 5. भो. सुवर्णपात्रम् / 6. च. तत / 7. ग. 'सूक्ष्मयोग' नास्ति। ८.ग. 'ततः नास्ति / 9. क. ख. ग. छ. ०पयिका। 10-11. छ. हैं / 12. छ. भो. हं। 13. क. मण्डल / 14. ग. 'कृत्वा' नास्ति / १५.क. हेमम् / १६.क. तत। 17. ग. प्रत्येक। 18. ग. दिकं च / 19. क. ख. छ. मण्डल / 20. क. परिरक्षार्थम् / 21. भो. क्षिप्तं पुष्पं / 22. ग. हस्तं / 23. ग. धिष्ठानेन / 24. भो. rDul Tshon ( रजो ) इत्यधिकम् / .