________________ पटले, 76-58 श्लो.] मण्डलाभिषेकमहोद्देशः होमं कृत्वा क्रमेणाचमनमपि तथा पावकस्यात्मनश्च दत्त्वा गन्धादिधूपं स्वहृदयकमले ज्ञानवह्नि विसय॑ / पश्चाच्छिष्यस्य सेकं सकलगुणनिधिः श्रीगुरुर्वै ददाति आदी पञ्चामृतं वै जिनवरकुलिशाधिष्ठितं शुद्धिहेतोः // 77 // 5 10 एवं होमं कृत्वा क्रमेणाचमनमपि तथा पावकस्यात्मनश्च बत्त्वा गन्पादिधूपं पूर्वोक्तक्रमेण पुनः स्वहदयकमले उत्स्वा(च्छ्वा)सेन ज्ञानवर्वाह्न विसर्जयेत् / ॐ जः गच्छ गच्छ महारश्मि स्वस्थानं संतृप्तो 'हो पुनरागमिष्यसि देवास्य यदाह्वयामि स्वाहा। इति विसयं ज्ञानवह्नि पश्चात शिष्यस्य सेकं ददाति गुरुर्वक्ष्यमाणक्रमेण सकलगुणनिषिः। सेकार्थः प्रथमं पञ्चामृतं जिनवरकुलिशाधिष्ठितमिति / ॐ आःहूँ हो हं क्षः इति पञ्चामृतं सप्ताभिमन्त्रितं कृत्वा मुक्ताशुक्तिकायां स्थापयेत् / शङ्खशुक्तिकायां वा / एवं पञ्चप्रदीप गुडिका / तत्रैव शुक्तिकायां शुद्धिहेतोरिति / प्राक्साधनीयं सप्ताभिषेकार्थमिति होमविधेः सर्वतन्त्रेषु भगवतो नियमः // 77 // इदानीं 'मण्डलप्रतिष्ठायै समाधिरुच्यतेसिद्धे होमे स्वमन्त्रे रजसि च पतिते मन्त्रचिह्न प्रदत्ते कोणे संस्थापनीयाः स्फटिकसितघटावेष्टिताः पञ्चसूत्रः / आचार्यः पूर्ववक्त्रः कुलिशकमलजैरुद्गतेः क्रोधराजैः आकृष्ट्वा ज्ञानचक्रं रजसि समरसं सेकहेतोः करोति // 78 // 15 20 सिद्ध इत्यादिना। "इह होमे सिद्ध सति स्वमन्त्रैरिति / क्रियायोगयोगानुविद्धयोगिनीतन्त्रेष्वनेकेषु उक्ताः स्वतन्त्रोक्ता मन्त्राः, तैः स्वमन्त्रस्तन्त्रोक्तविधिना होमे सिद्ध सति / प्रथमहोमे तत्र स्वमण्डले रजसि पतिते सति गर्भ चक्रे देवतागणस्य प्रवत्ते सति स्वस्वतन्त्रोक्तविधिना कोणे संस्थापनीयाः स्फटिकसितघटा वेष्टिताः पञ्चसूत्रः 1 शान्तः। शेषं११ १२पूर्वोक्तविधिना वेष्टिताः पञ्चसूत्रः। कण्ठे व[208a]स्त्रबद्धाः पूर्वभूम्यां मण्डलबाह्ये जयकलशं पञ्चकलशकार्येषु / तदुपरि षष्ठो विजयशङ्खः। दशकलशकार्येषु पुनरष्टसु दिक्षु 1 अष्टघटाः, जयो विजयः पूर्वापरकलशबाह्ये" अगुलद्वयेना 1. च. भो. होः / 2. ग. चिह्न। 3. छ. भो. हुँ / 4. ग. गुलिको, च, गुलिका / . 5. ग. च. विधिः / 6. भो. rDul Tshon Gyi dKyil Khor (रजोमण्डल)। 7. छ. इति / 8. ग. स्वतन्त्रैः स्व, च. स्वतन्त्रैश्च / 9. ग. च. भो. चिह्न, 'मन्त्र चिह्र' इति मूलस्थः पाठः। 10. ग. च. शान्ती। ११.ग. च. शेषे / 12. च. पूर्वविधिना। 13. च. 'अष्ट' नास्ति / 14. छ. बाह्य /