________________ 76 विमलप्रभायां [अभिषेक इदानी होममुद्रादिकमुच्यते अङ्गुष्ठेन प्रकुर्यादपि वरदकरे होममग्नेर्मुखे च वज्ररङ्गश्च भर्तुः शरशतसमिधान् शस्यदूर्वाज्यदुग्धैः / पर्यङ्कस्थः प्रशान्तस्त्वचपलहृदयो मन्त्रविन्मन्त्रमूर्ति राचार्यः कर्मवज्री पुनरपि शिखिने चाहुति वै ददाति // 76 // अङ्गुष्ठेनेत्यादिना। इह यदा श्रुवकाभावः, तदा वज्राचार्यः पूर्वोक्तासनस्थो वामकरमुत्तानकं कृत्वा दक्षिणवरदकरेणाङ्गुष्ठकेन होमद्रव्यं चालयित्वा वैश्वानरस्य स्फारितमुखस्य मुखे होमयेत् / स च भक्ष्यमाणश्चिन्तनीय इति / वज्र रि[207a]ति / ॐ आःहूँ हो हं क्षः स्वाहा / एभिः पञ्चशतसमिधान् तेनाष्टोत्तरशतं जुहुयात् / ततोऽङ्गरिति / हल हूँ ऋ ह्रीं ह्रां ह्रा स्वाहा इति। अङ्गैरष्टोत्तरशतम् / चकारात् पञ्चस्कन्धैर्धातुभिः। अ आ इ ई ऋ ऋ उ ऊ ल ल अं अः स्वाहा। एभिरष्टोत्तरशतम् / एवमायतनैश्च अ आ ए ऐ अर् आर् ओ औ अल् आल् अं अः स्वाहा इति / द्वादशायतनेरष्टोत्तरशतम् / ततः कर्मेन्द्रियैः सविषयैश्च ह हा य या र रा व वा ल ला हं हः "स्वाहा। एभिरष्टोत्तरशतम् / एवं चत्वारिंशदधिकपञ्चशतैः पञ्चशतसंज्ञा(ख्या) गृह्यन्ते / प्रत्येकमष्टोत्तरशतं मन्त्रं जपनीयम् / द्वात्रिंशल्लक्षणम्, अशीत्यनुव्यञ्जनम्, द्वादशोत्तरशतम् / तेभ्यः कायवाक्चित्तज्ञान स्थानानि वर्जयित्वा शेषाण्यष्टोत्तरशतानि / अक्षसूत्रमालायां मेरौ वक्त्रचतुष्टयम् / तेन सर्वत्राष्टोत्तरशतं मानं होमे सर्वकर्मणि पुण्यसम्भारार्थम् / ततः शस्यादिकं होमद्रव्यमप्यनेनैव विधिना शंस्य दूर्वाज्यदुग्धैः / एभिरष्टोत्तरशतभेदेन वक्त्रादिभिर्होमः कार्यः। समिधः शस्यानि च घृतेनाक्तानि / दुर्वादुग्धाक्ता होतव्या। ततः पूर्णाहुति हृदयमन्त्रेण घृतेन पात्री पूरयित्वा पर्यड्रस्थः प्रशान्तस्त्वचपलहृदयो मन्त्रविन्मन्त्रमूर्तिराचार्यः कर्मवज्री च पुनरपि शिखिने वै ददाति ॐह. क्षम् ल व र य इत्यनेन मन्त्रेण घृताहुति दत्त्वा ततो भक्ततोयं गहीत्वा स्वस्त्ययनं करोति / ॐ भूर्भुवः स्वाहा नमो देवेभ्यः स्वस्ति प्रजाभ्यः स्वाहा राजभ्यः स्वधा पितृभ्यः अलं भूतेभ्यः वषट् इन्द्रायेति कुर्वन् कुण्डबाह्यं विनिःसृत्य तत्तोयभक्तं बाह्ये प्रक्षिप्य तत्राचमनं कृत्वा पुनर्मण्डलगृहं प्रविश्य पावकस्यापि कुशतोयेनाचमनं कुर्यात् / ॐ आः हूँ कायवाक्चित्तस्वभावशुद्ध स्वाहा। अनेन मन्त्रेण। अत्र कुण्डप्रज्वालनकाले १°न मुखवातं कर्तव्यम् / अग्निसंदीपनार्थ(पनं) व्यजनवातादिना कुर्यादिति // 76 // 1. छ. भो. हुँ / 2. ख. ह्रह के ह्रीं ह्रां ह्रा, ग. ह ह ह ह्रीं ह्रां ह्रः, च. हह्रकुं ह्रीं ह्रां ह्रः, भो. लहह्रां ह्रीं ह्रां ह्रः। 3. भो. Phun Po Drug (षट्स्कन्ध)। 4. ग. सर्व, च. 'स' नास्ति / 5. ग. च. 'स्वाहा' नास्ति / 6. च. ज्ञानानि / 7. ग. च. भो. दूर्वाज्यदुग्धम् / 8. भो. हूँ। 9. ग. 'अत्र' नास्ति / 10. ग. मुखवातं न /