________________ पटले, 74-75 श्लो.] मण्डलाभिषेकमहोद्देशः 75 प्रतीच्छ स्वाहा, वज्रलास्यं प्रतीच्छ स्वाहा, वज्रहास्यं प्रतीच्छ स्वाहा, वज्रवाद्यं प्रतीच्छ स्वाहा, वजनृत्यं प्रतीच्छ स्वाहा, वज्रगीतं प्रतीच्छ स्वाहा, वज्रकामं प्रतीच्छ स्वाहा / एवं पूर्वोक्तैर्द्रव्यैः कर्मानुसारेण एभिर्मन्त्रपदैरग्निपूजाविषये स्वाहान्तैरर्चनम्, मण्डले नमोन्तैरिति सर्वत्र नियमः। एवं 'सर्वपाद्यं प्रतिपादयित्वा ततः पूर्वोक्तसमिधादिभिः पूर्वोक्तासनविधिना पूर्वोक्तहोमद्रव्यैः कर्मानुसारेण समाधिस्थो वज्राचार्यो होम कारयेत् / समिधं दग्ध्वा हस्तेन, ततः श्रुवकेण सर्वहोमद्रव्याणि, आहुति पात्र्या दापयेत् / तदभावे सर्व स्वकरेण वरदेनाङ्गुष्ठेनाग्निमुखे होमं कुर्यादिति नियमः। 10 अत्र वैश्वानरविशुद्धिरुच्यते / इह वैश्वानरस्त्रिविधः-दक्षिणाग्निः, गार्हपत्यः, आहवनीय इति / दक्षिणाग्निरत्र विद्युत् / गार्हपत्यः सूर्यः। आहवनीयः क्रव्यादः। सत्यश्चतुर्थो ज्ञानाग्निरानन्दधर्मा / अतस्तस्याधः सर्व एव होमः क्रियते। तथा वेदान्ते चाह क्रव्यादग्नि प्रहिणोमि दूरं यमराज्ञो गच्छतु 'रिप्रवाहः। . इहैवायमितरो जातवेदा देवेभ्यो "हव्यं वहतु प्रजानन् // (ऋ० 10 / 16 / 9) 15 T392 20 - इति वेदार्थः। अत्रापि स एवार्थः [206b] क्रव्यादाग्नेः। अनेन मन्त्रपदेन ॐ सर्वपापदहनवज्राग्नि वज्रसत्त्व सर्वपापं दह दह स्वाहेति नियमात् कामाग्नेरावाहनम्। तथा सूर्यस्यापीह हव्यवाहनमन्त्रसमयम् / ॐ वज्रानल सर्वभूतान् ज्वालय सर्वान् भस्मीकुरु सर्वजनदृष्टान् हूँ फट् स्वाहेति नियमात् सूर्यः / स एव सप्तवाराधिपतिः सप्ततुरगरथः 'सप्तजिह्वो वारभेदेन / शान्तौ सोमजिह्वः, पुष्टौ सूर्यजिह्वः, मारणे उच्चाटने विद्वेषणे च शनिजिह्वः, वश्ये शुक्रजिह्वः, आकृष्टौ बृहस्पतिजिह्वः, मोहने बुधजिह्वः, स्तम्भने मङ्गलजिह्वः / एवं प्रत्येकवारविशुद्धया प्रत्येकैककर्मणि एकमुखः / अहर्निशाविशुद्धया द्विचरणः। चतुःसन्ध्याविशुद्धया चतुर्भुज इति नियमः / शान्तिकादौ कर्मणि मारणे केतुविशुद्धया द्विभुजः। कतिकाकपालहस्तः। विद्वेषे च शनिविशुद्धया खड्गकपालहस्त इति पक्षान्तरनियमः / शनिवारे 'पूर्वार्धापरार्धभेदेनेति / सर्वकर्मणि राहुविशुद्धया कालाग्निविशुद्धया उत्पादप्रलयधर्मत्वात् / कामाग्निराहवनीयश्च देवता सर्ववारेषु व्यापकत्वात् / ज्ञानाग्निरिति पूजनीयो वज्राचार्येण पूर्वविधिनेति वैश्वानरावाहननियमः // 74-75 // 25 1. ग. छ. पाद्यं सर्व, भो. Sil sNan Thams Cad Rab Tu dKrol Te .. ( सर्ववाद्यं वादयित्वा)। 2. भो. Gan gZar Gyis Sreg bLugs dBul Bar Bya Sin (आहुति पाल्यार्पयेत्) / 3. क. ख. ग. छ. तस्यार्थः। 4. भो. Rab hZin ( प्रग्राहः)। 5. क. ख. प्रजादित्यः, ग. छ. प्रवहति प्रजादिभ्यः / 6. ग. सर्व / 7. ग. कर्तिक / 8. ग. पूर्वापरार्ध /