________________ विमलप्रभायां [अभिषेक कृत्वेत्यादिना। इह कुण्डस्य प्रथमं दशदिक्षु रक्षां कृत्वा क्रोधराजैः सदेव्यैः क्रोधैर्देवीभिः सार्धं पूर्वोक्तमन्त्रपदैः कीलकान्निधापयित्वा ततः श्रीवत्रैः प्रोक्षणाचं ॐ आःहूँ हः फट् अनेन कुण्डस्य दश दिक्षु कुशेनार्घपात्राद् गन्धतोयं गृहीत्वा प्रोक्षयेदिति प्रथमम् / ततस्तद्योगमालम्ब्य स्वहृदये कुण्डे च वैश्वानरं प्रतिष्ठाप्य ततः ससलिलकुसुमैरर्घमेवानलस्य देयम् / तद्योगयुक्तः स्वहृदयकमले भा[205b]वयित्वेन्दुमूनि सर्वकर्मणि। एकास्यं श्याम(श्वेत)वर्णम् / चतुर्हस्तद्विपादम् / अत्र सर्वकर्मणि / सव्ये प्रथमकरे वज्रं द्वितीयेऽक्षसूत्रम् / वामे घण्टापद्ममिति / सुकपिलजटिलम् / पिङ्गनेत्रम्। पिङ्गवस्त्रम्। सर्वकर्मणि। अक्षोभ्यशिरो धारिणमिति। समयसत्त्वं निष्पाद्य ततस्तद्धृदये चन्द्रमण्डलम्, तन्मूनि स्फुरदमलकरं भावयेत् / जःकारबीजपरिणतं वज्राङ्कशं तेनाकृष्य ज्ञानसत्त्वं सर्वगं कुरु समरसं समयसत्त्वेन सह / एवं कुण्डे 'च सम्यक स्वहृदयान्निश्चार्य निःश्वासेन वक्ष्यमाणया वज्राशमद्रयावाहनं कृत्वा वज्रमुष्टया ऊर्ध्वाङ्गुष्ठया कमलकर्णिकायां स्थापयेदिति। शान्तौ शुक्लवर्ण सवस्त्रममिताभमौलिनम् / दक्षिणे पद्मस्फटिकाक्षसूत्रधरं वामे कुण्डिकाशङ्खधरम् / पौष्टिके सव्ये चक्रमुक्ताफलाक्षसूत्रधरम् / वामे पद्मकमण्डलुधरम् / मारणे कृष्णवर्ण सवस्त्रममोघसिद्धिमौलिनम्। सव्ये कतित्रिशूलहस्तम्। वामे कपालखट्वाङ्गहस्तम् / उच्चाटने विद्वेषणे च दक्षिणे खड्गत्रिशूलहस्तम् / वामे कपालखट्वाङ्गहस्तम् / वश्ये कुङ्कुमवणं सवस्त्रम् / सव्ये 'शररत्नहस्तम् / वामे चापदर्पणहस्तम् / रत्नेशमुकुटिनम् / आकृष्टौ सव्ये वनाङ्कशरत्नधरम् / वामे वज्रपाशदर्पण करम् / मोहने सव्ये सर्पदण्डधरम् / वामे चक्रमुद्गरहस्तम् / स्तम्भने कीलने च सव्ये शृङ्खलामुद्गरधारिणम् / वामे चक्रवज्रकीलकहस्तम् / पीतवर्णं सवस्त्रं वैरोचनमौलिनं भावयेदिति / इह प्रथमं चन्दनकाष्ठेरग्नि प्रज्वाल्य सर्वकर्मणि देवगृहादानयित्वा शान्तिपुष्टयोर्ब्राह्मणगृहात्, मारणादौ शूद्रगृहात्, वश्यादौ क्षत्रियगृहात्, स्तम्भनादौ वैश्यगृहात्, मारणे पुनश्चण्डालगृहादानयित्वा प्रज्वालयेत् कण्टककाष्ठरिति। स्तम्भने कषायकाष्ठैः। वश्ये रक्तैः खदिरादिकाष्ठैः। शान्तौ क्षीरवृक्षकाष्ठैः / सर्वकर्मणि चन्दनागुरुदेवदादिसुगन्धिकाष्ठैः क्षीरवृक्षादिभिर्वेति। त[206a]तो वैश्वानरमावाहयेद् एभिर्मन्त्रपदैः-ॐ ‘एहि एहि .महाभूतदेवऋषिद्विजसत्तम गृहीत्वायुधं महारश्मि अस्मिन् सन्निहितो भव वज्रधर आज्ञापयति स्वाहेत्युच्चार्य अङ्कशमुद्रयाऽऽकर्षयेत्। वज्रमुद्रया प्रवेशयेत् / पाशमुद्रया बन्धयेत् / घण्टामुद्रया वक्ष्यमाणया तोषयेदिति। एषु प्रत्येकं बीजाक्षरं जः हूँ वँ हो' इत्युच्चारयेत् / ततो वज्रघण्टां वादयित्वा वशं कुर्यादिति / अत्रार्घ देयम् ॐ प्रवरसत्कारं महारश्मीन् प्रतीच्छ स्वाहा। इत्यर्घदानमन्त्रः। ततोऽर्चनम् एवं वज्रगन्धं प्रतीच्छ स्वाहा, वज्रपुष्पं प्रतीच्छ स्वाहा, वज्रधूपं प्रतीच्छ स्वाहा, वज्रदीपं प्रतीच्छ स्वाहा, वज्रनैवेद्यं 1 ग. हुं हूं हः, भो. हुं ह्रिः, छ. हुं ह्रः। 2. क. तथा तद्यो। 3. च. पिङ्गं / 4. ख. ग. धारण / 5. च. 'च' नास्ति / 6. क. ख. छ. सर। 7. भो. घरम् / 8. छ. 'एहि नास्ति / 9. ग. भवेति / 10. च. भो. होः / 11. भो. 'वज्र अक्षतं प्रतीच्छ स्वाहा' इत्यधिकः पाठः / 20 25