________________ विमलप्रभायां [लोकधातुइ, तेजधातोः ऋ, उदकधातोः उ, पृथिवीधातोः ल, स्थावरधातोर्मव्यञ्जनम्, जङ्गमधातोः क्षव्यञ्जनम्, अरूपधातोः हकारव्यञ्जनम्; एतानि मन्त्रपदानि वामावर्तेन स्थापयेत / ततः पूर्वव्यञ्जनस्य परव्यञ्जनोर्ध्वगमनं लकारादीनां 'इको यणची'ति (अ०६।११७७) यणादेशः / अन्ते अकारेण संयोगो विसर्गो अर्द्धचन्द्राकारो बिन्दुर्वृत्तो ज्ञानं शिखाकार5 मिति / मन्त्रयोनिर्गुणवृद्धयादीनां मन्त्राणाम्; तद्यथा-ह क्ष म् ल उ ऋ इ अः (घा इति' लोकधातुकायो वज्रकायः / आकाशधातौ यकारो वायुमण्डलम् / तदुपरि रकारो अग्निमण्डलम् / तदुपरि वकारो जलमण्डलम् / तदुपरि लकारो भूमिमण्डलम् / तदुपरि मकारो मेरुः पञ्चाकारः / तदुपरि क्षकारः पद्मव्यपदेशेन जङ्गमकायः / तदुपरि अरूपकायो हकारात् / विसर्गः सूर्यः / चन्द्रो बिन्दुः / नादो वज्रचिह्नमेकशूकम् / 10 एवं वज्रकायोऽलोकधातर्मण्डलाकारो वक्ष्यमाणेन वक्तव्यः। एवं सम्भतिसंन्त्रयोनेर्म क्तिरत्रेव भूय इति / पुनः संहारकाले मुक्तिर्लयो अत्रैव भवतीति / एवं यो वेत्ति सम्यगिति / एवमनेनोक्तक्रमेण यः कश्चिद् वेत्ति निरावरणेन वज्रकायम् / न स भवति पशुरिति[36a] / पशुरज्ञानी / चित्तसंकल्पमुक्त इति / संकल्पो मण्डलकल्पनाधर्मः, तेन मुक्तश्चित्तसंकल्पमुक्तः / अस्य दशाकारस्योद्देशः सुविशुद्धर्मधातुस्तवे तथागतेनोक्तः; T263 15 तद्यथा "दशाकारो दशार्थार्थो मुनीन्द्रो दशबलो विभुः / अशेषविश्वार्थकरो दशाकारवशी महान् // अनादिनिष्प्रपञ्चात्मा शुद्धात्मा तथतात्मकः / भूतवादी यथावादी तथाकारी अनन्यवाक् // अद्वयोऽद्धयवादी च भूतकोटिव्यवस्थितः / नैरात्म्यसिंहनिर्नादः कुतीर्थ(N) मृगभीकरः" / / (ना० स० 6 / 4, 5, 6) इति वज्रकायसंग्रहोद्देशः। 1. अत्र देवनागरीक्रमेण मन्त्रप्रस्तारः-हं 444444. 2-3. क. सम्भवति / 3. ख. भूतात्मा /