________________ पटले ] लोकधातुसंग्रहोद्देशः 55 ऋक्षागीन्द्वकताराग्रहगणऋषय इति / ऋणाणि सप्तविंशतिः; तत्सम्बन्धा(द्धा)न्यनन्तानि'। इन्द्वौं मण्डलाकारौ; ताराग्रहणस्तथैव तारकाकारो; मङ्गलादिरिति / ऋषयः सप्त तारकाः। देवभूताश्च नागाः। देवाश्चातुर्महाराजकायिकादयः, भूता अपराजितप्रेतादयः, नागा अनन्तादयः / तिर्यग्योनिश्चतुर्धा / अण्डजा गरुडादयो वायुयोनिः, जरायुजा गजेन्द्रादयोऽग्नियोनिः, संस्वेदजा कीटपतङ्गकृम्यादयो जलयोनिः, उपपादुका वृक्षादयो भूमियोनिरिति / तथा महोपपादुका रसयोनिः / विविधमहितले / महीत्यागमपाठः। विविधा च सा मही चेति विविधमही; सप्तद्वीपस्वभावा द्वादशखण्डस्वभावास्तस्यास्तलं विविधमहितलं नागभुवनं सप्तनरकभुवनम् ; तस्मिन् विविधमह्यां मनुष्याः, तले नरके नारकाः। चकारः समुच्चयार्थ इति / सम्भूताः शून्यमध्ये लवणमिव जले त्वण्डजाश्चाण्डमध्ये इति / अत्र दृष्टान्तः-स्थावराणामुत्पत्तये लवणम्, जङ्ग- 10 मानामुत्पत्तये अण्डम्, चकारः समुच्चयो यथा आतपसंयोगात् लवणा उदकपरमाणवो लवणकठिनत्वं यान्ति तथा मेर्वादयः स्थावरा इति / यथा शुक्रद्रवपरमाणवोऽण्डमध्ये मुखकायाद्यवयवत्वं गतास्तथा जङ्गमसत्त्वा वेदितव्याः / ___ अस्य लोकधातोविस्तरेणोत्पादः पञ्चमपटले वक्तव्यः। इति लोकधातुसंग्रहोद्देशः / (ग) वनकायसंग्रहोद्देशः इदानी मञ्जश्रिया पूर्वक्रमेण देशितं वज्रकायसंग्रहवृत्तं पञ्चमं वितनोमीति . कायेत्यादिना काये ज्ञानेऽम्बरे वै पवनहविजले भूस्थिते(रे) स(ज)ङ्गमे च दिव्यादृष्टौ च सृष्टौ दशविधभुवने वणिते वज्रकाये / सम्भूतिर्मन्त्रयोनेर्भवति नरपते मुक्तिरत्रैव . भूयः एवं यो वेत्ति सम्यक् न स भवति पशुश्चित्तसंकल्पमुक्तः // 5 // [35b] काय इति चन्द्रो निरावरणम् : ज्ञानमिति सूर्यो निरावरणम् / अम्बरमित्याकाशधातुनिरावरणः / एवं वायुधातुस्तेजोधातुरुदकधातुः पृथिवीधातुः स्थिर इति पञ्चात्मकः / स्थावरधातुनिरावरणः / जङ्गम इति षड्धात्वात्मकः पुङ्ग(द्ग)लधातुनिरावरणः। दिव्यावष्टौ च सष्टाविति / दिव्या च साऽदष्टिश्च सष्टिः, तस्या(.) दिव्यादष्टौ च 25 सृष्टोऽरूपभवे विज्ञानाहङ्कारमात्रे आकाशानन्त्यायतनादिके चतुःप्रकारे / एवं कायादिके बशविधभुवने वज्रज्ञानाधारे वणिते तथागतैर्वज्रकाये सम्भूतिर्मन्त्रयोने बिन्द्वादिके भवति नरपते अत्र मन्त्रयोनिः / चन्द्राद् बिन्दुः, सूर्याद्विसर्गः, आकाशधातोः अ, वायुधातोः 1. क. ख. पुस्तकयोः अत्र 'तत्सम्बन्धान्यतन्त्राणि' इति पाठः; किन्तु भोटानुसारं 'तत्सम्बद्धान्यनन्तानि' इति पाठः सम्यक् प्रतिभाति / 2. ख. मन्त्रयाने / 20