________________ विमलप्रभायां [लोकधातुतिर्यग्योनिश्चतुर्धा विविधमहितले मानुषा नारकाश्च सम्भूताः शून्यमध्ये लवणमिव जले त्वण्डजाश्चाण्डमध्ये / / 4 / / अत्र मन्त्रनये यानत्रितयनिर्जात एकयानफले स्थितो मन्त्री भगवतोक्तः। यः पुनर्यानत्रितयाभिसन्धि न वेत्ति स कालात् सर्वज्ञमार्गनष्टो भवति / मन्त्रयाने संध्याभाषान्त5 रमज्ञायमानः प्राणातिपातादिकं मठविहारद्रव्योपभोगं कृत्वा शाश्वतोच्छेदपक्षग्रहणेन बाह्यविषयोपभोगासक्तः सन् नरकं याति, आचार्यव्यपदेशेन रत्नत्रयं विडम्बयित्वा / T 262 अत्र चत्वारो वृद्धाः परलोकेहलोकार्थमाराधनीयाः सत्त्वैः। एषु ज्ञानवृद्धोऽभिज्ञालाभी मुदिताभू[34b]मिप्राप्तो वज्राचार्यो भिक्षुः गृहस्थो वा पूज्यो दशभिक्षुसमो' भगव तोक्त इति / तस्याभावे तपोवृद्धः२ काषायधारी' काषायधारिणां वर्षाग्रेण मन्त्रिणाम10 भिषेकेण गृहस्थाचार्याणां सर्वदा वन्द्यः, तपोवृद्धत्वात्, गृहस्थानामभिज्ञाभावात् / श्रृंतवृद्धः पण्डितः पूज्यः शाश(स)नोद्योतकः परवादिनां मारकायिकानां दमकः / एते परलोकार्थमाराधनीयाः सत्त्वैरिति / धनवृद्धो राजा इहलोकभोगार्थिभिराराधनीयः / एवं चत्वारो वृद्धा आराधनीयाः सत्त्वैरिति / अतो यानत्रयज्ञाता तपोवृद्धः, गृहस्थस्य श्रावकयाने प्रातिमोक्षश्रुताधिकारो नास्ति यावत् तपस्वी न भवति / अतो गृहस्थो वृद्धो न भवति / 15 अभिज्ञया विना न च गृहस्थानां प्रव्रज्यारहितानां मठविहारोपभोगः कुत्रचिद् याने भगव तोक्त इति / अतो यानत्रयपरिज्ञानाय प्रथमं वैभाषिकमतमाश्रित(त्य) परमाणुसन्दोहात्मकलोकधातुरस्ति / "तथाछि(पि)*पुर्गलोऽस्ति पुद्गलो भारवाहो (हारो) न नित्यो नानित्यो भणाम" इति ( ) भगवतो वचनात् लोकधातूत्पादनिरोधा वेदितव्याः / संवों विवर्तकालश्चेति / अतः संवर्तादुत्पाद कालवशात् शून्येष्विति / शून्यानीति 20 लोकव्यवहारेण चक्षुरादीनामिन्द्रियाणमगोचराणि, परमाणुरूपेणावस्थितानि, पृथिव्यप्ते जोवायुरसद्रव्याणि", पञ्चचतुस्त्रिद्वयेकगुणस्वभावानि / षष्ठो गुणो धर्मधातुः सर्वत्र व्यापक इति शून्यानि / तेषु शून्येषु परमाणुषूत्पादकालवशात् वायुरिति / तेषु परमाणुषु मध्ये प्रथमं तावत् वायुपरमाणवोऽन्योन्याश्लिष्टा भवन्ति / तस्मात् संयोगाल्लघुचञ्चलता गमनाद् वायुरित्युच्यते / एवमग्निपरमाणव आश्लिष्टाः सन्तो वायुसंयुक्तविद्युदग्निरित्युच्यते / एवं तोयपरमाणव आश्लिष्टाः सन्तो वाय्वग्निसंयुक्तवृष्टिजलमित्युच्यते / एवं पृथिवीपरमाणव आश्लिष्टा इन्द्रचाषं(पं) गगने दर्शयन्ति धरा इत्युच्यते / रसपरमाणवः सर्वत्र व्यापकाः / एवं पञ्चशून्येषु वायुज्वलनजलधरा[35a] भवन्ति, सन्धारणमन्थानसंस्थानवातप्रभावतः / द्वीपशैलाः समुद्राः। द्वीपानि सप्त, शैलाः सप्त, समुद्राः सप्त / 1. क. दशदिक्षु; भो०. dGe sLoi bCu dai mNampar (दशभिक्षुसमो)। 2. क. बृद्धः। 3. ख. कायधारी / 4. भो. brTen nas (आश्रित्य)। 5. Khur Khur Ba Po (भारवाहो)। 6. भो. Chags Pa Ni (संवत्तॊ हि)। 7. ऊ. वाय्वाकाशद्रव्याणि / *. ङ. तथा हि।