________________ 53 पटले ] लोकधातुसंग्रहोद्देशः पदगतिसहितमिति / पदं द्विधा-आलिकाल्यात्मकम् / तयोर्गतिः पदगति':, कण्ठतालुमूर्धीष्ठदन्तस्थानेषूच्चारः स्वरव्यञ्जनानामिति; तया गत्या सहितं प्रव्याहारमन्त्रसंकेतेनेति / अत्र संकेतकं द्विधा-एकं मन्त्रसंकेतकम्, द्वितीयं तथतासंकेतकम् / तत्र मन्त्रसंकेतकं प्रव्याहारो लौकिकम्, तथता पारमार्थिकं वागुदाहारवर्जितम् / यत्र प्रव्याहारसंकेतकं तत्र ओं आः हूँ इत्यादिमन्त्रसंज्ञा; यत्र तथतासंकेतकं तत्र अकारो मुखं 5 सर्वधर्माणामाद्यनुत्पन्नत्वादिति / तथा षोडशसाहस्रिके मायाजाले भगवानाह . "तद्यथा भगवान् बुद्धः सम्बुद्धोऽकारसंभवः / अकारः सर्ववर्णाग्रयो महार्थः परमाक्षरः॥ महाप्राणो ह्यनुत्पादो वागुदाहारवर्जितः / सर्वाभिलापहेत्वग्रयः सर्ववासुप्रभास्वरः" // इति / (ना० स० 5 / 1, 1) पुनस्तत्रैव समाधिजालपटले 2 "अनक्षरो मन्त्रयोनिमहामन्त्रकुलत्रयः। पञ्चाक्षरो महाशून्यो बिन्दुशून्यः षडक्षरः" || (ना० स० 101, 2) इति तथता पारमार्थिक संकेतं मन्त्रयाने भगवतोक्तम् / एवं निर्वाणं ज्ञानधातुरनाहतम् / - नोच्चारितं नोच्चारितस्वरव्यञ्जनलक्षणम् / इति आकाशधात्वाद्यं मन्त्रसंकेतकं 15 प्रव्याहारलक्षणं कण्ठाधुच्चारितधर्मो भगवतोक्तम् / अत्र अ[34a]कुहविसर्जनीयाः कण्ठ्याः; इचुयशास्तालव्याः; ऋटुरषा मूर्त्याः; उपूपध्मानीया ओष्ठ्याः; लुतुलसा दन्त्याः; एवमुभयस्थानीयाः, त्रिस्थानीयाः, चतुःस्थानीयाः; पञ्चस्थानीयाः; मन्त्राः कूटमन्त्राश्च वेदितव्याः; प्रव्याहारमन्त्रसंकेतेनेति / ते च सर्वे संज्ञारूपिणः संज्ञिनां भावानां प्रतिपादका लौकिकसिद्धिसाधनाय; तथतासंकेतकं वागुदाहारवर्जितं पारमार्थिक महामुद्रा- 20 सिद्धिसाधनाय कर्ममुद्राज्ञानमुद्रासिद्धिरहितं भगवता सर्वतन्त्रराजेषु निर्दिष्टमिति / देहमध्ये समस्तमेतद् योगं व्याख्यायमानं मया शृणु त्वं सुनरपते मण्डलं चाभिषेक वक्ष्यमाणक्रमेण सर्वसत्त्वानां निरावरणपदप्राप्तय इति भगवतः प्रतिवचनसंग्रहोद्देशः / (ख) लोकधातुसंग्रहोद्देशः इदानीं भगवतो लोकधातुसंग्रहं म श्रिया सङ्गीतिकारेण परमादिबुद्धाच्चतुर्थवृत्तेन देशितं विवृणोमि कालाच्छून्येष्वित्यादिना कालाच्छून्येषु वायुज्वलनजलधरा द्वीपशैलाः समुद्राः ऋक्षाणीन्द्वकताराग्रहणऋषयो देवभूताश्च नागाः / 1. ख. पुस्तके 'पदगतिः' इति नास्ति / 2. क. समाधिराज० / 3. क. ज्वं / 25