________________ विमलप्रभायां [लोकधातुइदं विशुद्धक्रम महामुद्रासिद्धिदायकं परमादिबुद्धे प्रकटं पुस्तके लिखितम्, शोतानद्युत्तरे भव्यसत्त्वानां चित्ताधिमुक्ति ज्ञात्वा भगवता देशितम्, वज्रपाणिना पुस्तके लिखितं नामसङ्गोति प्रमाणीकृत्य / सत्त्वा येन निःसन्देहा भविष्यन्ति, तेन सर्वमन्त्रनये' नोतार्थो मन्त्रयानस्य नामसङ्गीत्यां भगवता सन्देशितो वज्रपाणेरिति / अतो ये परमादिबुद्धं न जानन्ति ते नामसङ्गीति न जानन्ति, ये नामसङ्गीतिं न जानन्ति ते वज्रधरज्ञानकायं न जानन्ति, ये वज्रधरज्ञानकायं न जानन्ति ते मन्त्रयानं न जानन्ति, ये मन्त्रयानं न जानन्ति ते संसारिणः सर्वे वज्ररभगवतो मार्गरहिताः। एवं परमादिबद्धं मोक्षार्थिभिः सच्छिष्यैः श्रोतव्यं सदगरुणा देशयितव्यमिति / . इति मूलतन्त्रानुसारिण्यां लघुकालचक्रतन्त्रराजटीकायां द्वादशसाहस्रिकायां विमलप्रभायां मण्डलाभिषेकादिसंग्रहोद्देशः षष्ठः // 6 // 15 (7) लोकधातुसंग्रहोद्देशः (क) प्रतिवचनसंग्रहोद्देशः इदानी भगवतः प्रतिवचनं परमादिबुद्धात् मञ्जुश्रिया सङ्गीतिकारेण तृतीयवृत्तेन सङ्गीतम्, तदेव वितनोमि तुष्टोऽहमित्यादिना तुष्टोऽहं ते सुचन्द्र प्रवरसुरनरै राक्षसैर्दैत्यनागैनं ज्ञातं वीतरागैः परममुनिकुलैयंत् त्वया पृष्टमेतत् / निर्वाणाद्यं धरान्तं पदगतिसहितं देहमध्ये समस्तं योगं व्याख्यायमानं ऋणु सुनरपते मण्डलं चाभिषेकम् // 3 // तुष्टोऽहं ते सुचन्द्र इत्यामन्त्रणम्। हे सुचन्द्र तुष्टोऽहं ते। कुतः ? यतो यत् त्वया पृष्टमेतत् कालचक्रयोगं तत् प्रवरसुरनरादिभिर्न ज्ञातम्, अतस्तुष्टोऽ[33b]हमिति / अत्र प्रवरसुराश्चातुर्महाराजकायिकादिनैवसंज्ञानासंज्ञायतनोपगान्ताः; नराश्चक्रवर्त्यादयः; राक्षसा नैऋत्यादयः; दैत्या अपराजितादयः; नागा अनन्तादयः; वीतरागा आर्यानन्दादयः; परमऋषयो नारदादयः / एषां कुलैरेभिः प्रवरसुरनरादिभिर्न ज्ञातं कालचक्रयोगं निर्वाणाद्यं धरान्तम् / निर्वाणं ज्ञानधातुर्यस्यादिः, अन्ते धरा पृथिवी मध्येऽनुक्तत्वादाकाशवायुतेजःतोयधातवः / एते धातव आकाशाद्या व्याप्यव्यापको ज्ञानधातुः / एवं व्याप्यव्यापकसम्बन्धो योग इति–तथा भगवानाह "पृथिव्यापस्तथा तेजो वायुराकाशधातुकम् / विज्ञानं षडधात्वाख्यो महापुरुषपुद्गलः" || इति / 20 1. ख. सर्वतन्त्रनये। 2. क. नीत्यार्थो। 3. ख. तन्त्रयानस्य / 4. क. वितनोमीति /