________________ पटले मण्डलाभिषेकादिसंग्रहोद्देशः आकाशधातुरिति / महदाद्याः प्रकृतिविकृतयः सप्त (सां० का० 3) इति' / पृथ्व्यपतेजोवायुमनोबुद्धयहङ्कारश्चेति / षोडशकास्तु विकारा (सां० का० 3) इति / पञ्चेन्द्रियाणि पञ्च विषयाः पञ्च कर्मेन्द्रियाणि दिव्येन्द्रियं चेति। चतुर्विंशतिः प्रकृतिः,पुरुषो न प्रकृतिर्न विकृतयश्चेति / इह पुरुषो व्यापकत्वान्न प्रकृतिर्न विकृतिः, स्वभावरहित इसि / बाह्ये देहे परे च पञ्चविंशत्यात्मक इति सिद्धः / बाह्ये तु पञ्च धातवः, 5 राहुसूर्यचन्द्रा इत्यष्टौ प्रकृतिः, मङ्गलादयः पञ्च ग्रहाः पञ्चेन्द्रियाणि / पञ्च विषयाः पृथिव्यादीनां षड् रसा इति षोडश विकाराः। अथैके इन्द्रियादयः षट जीवकाया इति / एवं देहे विश्वस्य मानं अध्यात्मपटले वक्तव्यम् / त्रिभुवनरचनामिति / इह बाह्ये त्रिभुवनमिति लोकधातुः। अध्यात्मनि शरीर(रे) तस्य रचना वक्ष्यमाणक्रमेण व्याख्याहीति क्रियानियमः। भुक्तिदेवासुराणामिति / इह देवानां दिवाभुक्तिरसुराणां 10 रात्रिभुक्तिः / तथा उत्तरायणं दक्षिणायनम् / एतद् व्याख्याहि सम्यक् त्रिदशनरगुरोर्मण्डलं चाभिषेकमिति / इह लौकिकसत्येन रजोमण्डलमाख्याहि रजः सूत्रपातेनेति[32b]। परमार्थसत्येन पुनः सूत्रपातरहितं रजःपातरहितं वर्णभुजसंस्थानरूपदेवताविकल्पभावनाचित्तरहितं सर्वाकारमाकाशधातावादर्शप्रतिसेनोपममिति / तथा लौकिकाभिषेकाः-उदक-मुकुट-पट्ट-वज्रघण्टा-महाव्रत-नाम-अनुज्ञा इति 15 सप्त; तथोत्तराः-कलशः गुह्यः प्रज्ञाज्ञानमिति, लाकोत्तराभिषेक एकादशमश्चतुर्थ इति सर्व सम्यग् व्याख्याहि / तत् कस्य हेतोः ? इहार्यविषयेऽनागतेऽध्वनि वज्राचार्या द्रव्यलुण्ठका भविष्यन्ति; द्रव्यार्थं द्रव्याभिमानिनामीश्वराणां गृहं गत्वा धर्मविक्रय करिष्यन्ति; अभव्यानां द्रव्यलोभेन लोकोत्तराभिषेकं दास्यन्ति; राजादीनां प्राक् किङ्कराः पश्चाद् गुरवो भविष्यन्ति; अन्येषां द्रव्यहीनानां भव्यचित्तानामपि दशाकुशलकर्मपथपरित्य- 20 कानां लोकोत्तराभिषेकं न दास्यन्ति; तेषां क्लेशमुत्पादयिष्यन्ति; द्रव्यवशाद् वज्रपदं दुष्टसत्त्वेभ्यः प्रकाशयिष्यन्ति / अन्येऽपि वज्रपदमज्ञायमानाः परस्परं विवादं करिष्यन्ति; पण्डिताभिमानेन तन्त्रार्थमजानन्तोऽपि तन्त्रटीकां करिष्यन्ति; मारकायिकाः सत्त्वानां गुरवो भूत्वा वज्रपदं विपरीतं देशयिष्यन्ति; बुद्धज्ञानं द्वीन्द्रियजं सुखं बालमतीनां प्रकाशविष्यन्ति; तृतीयं प्रज्ञाज्ञानं चतुर्थं तदेव तत्पुनस्तथाशब्देन तृतीयं ज्ञानं बुद्धज्ञानं 25 वदिष्यन्ति-हेतुफलयोरभेदेन भगवतोक्तमिति / एवमनागतेऽध्वनि दुष्टाचार्यप्रवर्तनं दृष्ट्वा बुद्धभगवता चतुर्थं प्रज्ञाज्ञानाभिषेकं सर्वतन्त्रान्तरेषु नोत्तानीकृतम्, यद् आर्यविषये पण्डिताभिमानेन पुस्तकं दृष्ट्वा विनाभिषेकेन वज्रयानदेशका भविष्यन्ति / ततः सर्वलघुतन्त्रे मूलतन्त्रेषु चतुर्थं प्रज्ञाज्ञानं महामुद्राभावना धूमादिमार्गः सुगुप्तः, कचिन्मूलतन्त्रेषु 181 प्रकट इति / अत्र पुनः परमादिबुद्धे मूलतन्त्रे लघुतन्त्रेऽपि चतुर्थं प्रज्ञाज्ञानं प्रकटम् / 30 महामुद्राभावना धूमादिमार्गश्च प्रकट [33a] इति वज्राचार्यपारम्पर्यक्रमेण नागतः, यथा मन्त्रदेवताबाह्यसिद्धिसाधनं वीरक्रमस्वाधिष्ठानकमं च गुरुपारम्पर्यक्रमेणागतमिति / 1. सांख्यकारिकायां 'महदाद्यः प्रकृतिविकृतयः सप्त' इति पाठः / 2. सांख्यकारिकायां 'षोडशकस्तु विकारो' इति पाठः। 3. सांख्यकारिकायां 'न प्रकृतिर्न विकृतिः पुरुषः' इति पाठः।