________________ विमलप्रभायां [लोकधातुसर्वाकारप्रज्ञाबिम्बं ज्ञेयं रविः (इति) / ज्ञानविज्ञानाधिष्ठितनिरावरणमेकलोलीभूतं [31b]तत्त्वं जगदर्थकारि भवति / एतदेव कायवाचित्तज्ञानैकयोगं चतुर्वक्त्रकारणं भवति / ज्ञानं पश्चिमवक्त्रं पीतम्, विज्ञानं पूर्ववक्त्रं कृष्णम्, चन्द्रः कायवक्त्रं सित मुत्तरम्, सूर्यो वाग्वक्त्रं दक्षिणे रक्तमिति / अनयोश्चन्द्रार्कयोः षट् षट् धातवो गौणT 260 , मुख्यभेदेनावगन्तव्याः / ते च पृथ्वी-अप-तेजो-वायु-रस-महारसावयवा' इति / एषु शुक्रे त्रयः उद्भूताः, त्रयोऽनुद्भूताः / तोयधातुवायुधातुरसधातुः-एते धातवः शुक्रे उद्भूताः। रसधातोराकाशधातुसंज्ञेति / रजसि त्रय उद्भूताः, त्रयोऽनुद्भूताः / पृथ्वीधातुः, तेजोधातुः, महारसधातुः-एते धातवो रजसि उद्भूताः। अत्र महारसस्य ज्ञान धातुसंज्ञेति / अवशेषाः शुक्रे रजसि चानुभूताः। एवं चन्द्रार्कयोरुद्भूतास्त्रयो धातवः 10 कायवाञ्चित्तानि यथाक्रमेण भवन्ति गर्भजानामिति / चन्द्रस्य धातव उपायस्य कायवाञ्चित्तानि / सूर्यस्य धातवः प्रज्ञायाः कायवाञ्चित्तानि, शुक्ररज-उद्भूतकारणादिति / एते धातवः षडिन्द्रियादीनां षट् कुलानोति / एवं कायवाञ्चित्तकुलानि स्वभावकुलेन सार्द्ध चतुः कुलानि भवन्ति / कायत्रयं कायचतुष्कं भवति, अवस्थात्रय15 मवस्थाचतुष्कं भवति; एवं पञ्च धातुकुलानि ज्ञानधातुना सह षट् कुलानि भवन्ति, तथा पञ्च स्कन्धकुलानि ज्ञानस्कन्धेन सार्द्ध षट् कुलानि भवन्ति गर्भजानामिति / कन्यायाः द्वादशाब्दैः, पुंसः षोडशाब्दैः; कन्यायाः रजः कालं यावत् त्रिकुलं पञ्चकुलं वेदितव्यम् / पुरुषस्य शुक्रच्युतिकालं यावत् त्रिकुलं पञ्चकुलं वेदितव्यम् / * ज्ञानधातूद्भूतकाले उभयोश्चतुःकुलं षट्कुलमामरणादिति / तथा मूलतन्त्रे भगवानाह "त्रिकुलं पञ्चकुलं चैव स्वभावैकं शतं कुलम्" / इति / ' इदानी कुलकुलीना उच्यन्ते बुद्ध इत्यादि / इह बुद्धा ज्ञानविज्ञानादयः षट् स्कन्धा इति / देवासुरांश्चेति / चकारात् बोधिसत्त्वा मन इन्द्रि[32a]यादयः षट्, एवं षड् धातवः षड़ विषयाः। तथा षड़ क्रोधाः षट् कर्मेन्द्रियाणि / षट् क्रोधदेव्यः षट् कर्मेन्द्रियक्रियाः / देवा द्वादशहस्तपादसन्धौ वक्ष्यमाणा इति / एवं योगिन्यश्चचिका(द्या) 25 अष्टौ; असुरा नागराजानः; श्वाना स्यादयो देव्य इति / इदानीं तीथिकावतारणाय प्रकृतिपुरुष उच्यते; तथाह भगवान् तन्त्रान्तरे "महामाया महारौद्रा भूतसंहारकारिणी / स्वयं कर्ता स्वयं हर्ता स्वयं राजा स्वयं प्रभुः" / इति मृषा, परमार्थतः कर्ता हर्ता नास्ति / अन्योऽपि तीथिकैः परिकल्पितो धर्मः प्रकृति10 पुरुषादिक इति / तीथिकानां प्रकृतिश्चचतुर्विशत्यात्मिका, पुरुषः पञ्चविंशति[त]म इति / तत्र मूलप्रकृतिरविकृरिति (सां० का० 3) / तुर्यावस्था सत्त्वानां जनिका 1. भो. o Cha Ses (अंश)।। 2. ख. स्वाना। 3. ख. संहारकारकारिणी।