________________ पटले] 2 मण्डलाभिषेकादिसंग्रहोद्देशः लवणाश्चेति / अं अ इ ऋ उ लु इति षड् रसाः। शेषमुक्तविधिना। एतदेव पञ्चाक्षरमहाशून्यं षट्त्रिंशदात्मकं कुलिशमुच्यते जिनैः। तं धरतीति कुलिशधरः। बिन्दुशून्यः षडक्षर एकारो' धर्मोदयः सर्वाकारशून्यतारूप इति; तद्यथा-विज्ञानस्कन्धः / आकाशधातुः श्रोत्रम् / धर्मधातु भगशुक्रच्युतिः। एषां निरावरणशून्यता सर्वाकारा मध्यानाहतस्यो / अस्य संज्ञाचिह्नं कवर्गात्मकं ककारव्यञ्जनमनुच्चार्य प्रथमं बिन्दु- 5 शून्यमिति / संस्कारस्कन्ध / वायुधातु / घ्राणस्पर्श / वाग्विट्स्राव / एषां निरावरणशून्यता सर्वाकारपूर्वचिह्नस्य पूर्वे / अस्य संज्ञाचिह्न चवर्गात्मकं चकारव्यञ्जनमनुच्चार्य द्वितीयं बिन्दुशून्यमिति / वेदनास्कन्ध / तेजोधातु / चक्षुरस / पाणिगति / एषां निरावरणशून्यता सर्वाकारा दक्षिणचिह्नस्य दक्षिणे। अस्य संज्ञाचिह्न टवर्गात्मकं टकारव्यञ्जनमनुच्चार्य तृतीयं बिन्दुशून्यमिति / संज्ञास्कन्ध / तोयधातु / जिह्वारूप / 10 पादेन्द्रियादानम् / एषां निरावरणशून्यता सर्वाकारा उत्त[31a] रचिह्नस्योत्तरे / अस्य संज्ञाचिह्न पवर्गात्मकं पकारव्यञ्जनमनुच्चार्य चतुर्थं बिन्दुशून्यमिति / रूपस्कन्ध / पृथिवीधातु / कायेन्द्रियगन्ध / पायवालापः / एषां निरावरणशून्यता सर्वाकारा पश्चिमचिह्नस्य पश्चिमे / अस्य संज्ञाचिह्न तवर्गात्मकं तकारव्यञ्जनमनुच्चार्य पञ्चमं बिन्दुशून्यमिति / ज्ञानस्कन्ध / ज्ञानधातु / मनः शब्द दिव्येन्द्रियमूत्रस्राव / एषां निरावरण- 15 शून्यता सर्वाकारा मध्यानाहतचिह्नस्याधः / अस्य संज्ञाचिह्न सवर्गात्मकं सकारव्यजनमनुच्चार्य षष्ठं बिन्दुशून्यमिति / एवं बिन्दुशून्यषडक्षरो धर्मोदय कुलिशधर एकार इति शून्यता सालम्बा प्रतिसेनास्वरूपिणीति / अत्र व्यञ्जनानि स्कन्धधात्वादीनाम्-क् ख् ग् घ् ङ् च् छ् ज् झ् ञ् ट् ठ् ड् ढ् ण् प् फ् ब् भ् म् त् थ् द् ध् न स्' ष् श् क ह य व ल क्ष् इति / एषां पुनः स्वरव्यञ्ज- 20 नानां हस्वदीर्घभेदेन स्कन्धधात्वादिभेदो ज्ञातव्य इति / कायभेदेन स्कन्धेन्द्रिया ह्रस्वस्वरव्यञ्जनधर्माः धातुविषया दोघस्वरव्यञ्जनधर्माः षड् रसा धातुविकारभेदेन षड्त्रिंशद् धातवो भवन्ति; षट् स्कन्धाः षडिन्द्रियादिभेदेन षट्त्रिंशत् स्कन्धा भवन्ति; तद्यथा-षड् रसाः षड् धातवः षडिन्द्रियाणि; षड् विषयाः, षड्(ट्) कर्मेन्द्रियाणि, षड् (ट्) कर्मेन्द्रियविषया इति / षड् रसधातुविकाराः। श्रोत्र- 25 विज्ञानादि षड् विज्ञानानि / एवं षट् संस्काराः, षट् वेदनाः, षट् संज्ञाः, षड् रूपस्कन्धाः, षट् ज्ञानस्कन्धाः इति / स्कन्धविकारा वक्ष्यमाणे विस्तरेण वक्तव्याः; अत्रोद्देशमात्रेणोद्दिष्टा इति / इह पञ्चाक्षरो महाशून्यः स्वरसमूहः शुक्रश्चन्द्र इत्युच्यते; बिन्दुशून्यः षडरोक्ष व्यञ्जनसमूहो रजः सूर्य इत्युच्यते / अत्र शुक्रं चन्द्रो वकारो वज्रम्; रजः सूर्य एकारः 30 पद्मम् / अनयोर्वज्रपद्मयोरेकत्वं वज्रसत्त्व इति / वज्रं परमसुखं ज्ञानं शुक्रम् / सत्त्वः 1-2. ङ. एकारोदयः। 3. क. श्राव / 4. क. पुस्तके नास्ति। 5. भो. पुस्तके 'स' इत्यस्य पश्चात् 'ब' इति प्रतीयते / 6. ख. पुस्तके 'ज्ञान' इति नास्ति।