SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ 48 विमलप्रभायां [लोकधातु बिन्दुमित्यनया संज्ञया चतुर्थ शून्यमवगन्तव्यं पूर्वचकारात्; तद्य [30a]थासंज्ञास्कन्ध-तोयधातु-जिह्वा-रूपपादादानञ्च / एषां निरावरणता समरसत्वमेकलोलीभूतत्वं बिन्दुमिति चतुर्थाक्षरमहाशून्यमिति / अस्य संज्ञाचिह्न मध्यचिह्नाद् वामेन बिन्दुमेकमनुच्चार्यमिति। वरकुलिशधरमिति / वरश्च वरश्च कुलिशधरश्च वरकुलिशधरम्, एकद्वन्द्वात् / पूर्वचकाराद् अमी त्रयः शून्यसंज्ञाः स्युः। प्रथमवरसंज्ञा(ज्ञ)या द्वितीयशून्यमुक्तः; तद्यथा-संस्कारस्कन्धवायुधातुघ्राणसंस्पर्शवागिन्द्रियविस्रावाः / एषां निरावरणता T259 समरसत्वमेकलोलीभूतत्वं वरमिति द्वितीयाक्षरशून्यम् / अस्य संज्ञाचिह्न मध्यानाहत चिह्नात् पूर्वेण दण्डाकारं रेखामात्रमनुच्चार्यमिति' / द्वितीयवरसंज्ञया पञ्चमं शून्य10 मित्युक्तम्; तद्यथा-रूपस्कन्ध-पृथिवीधातु-कायेन्द्रिय-गन्धापाय्वालापाः। एषां निरा वरणता समरसत्वमेकलोलीभूतत्वं वरमिति पञ्चाक्षरशून्यम् / अस्य संज्ञाचिह्न मध्यानाहतचिह्नात् पश्चिमेन हलाकृतिमनुच्चार्यमिति / एवमुक्तक्रमेण पञ्चभिरेकलोलीभूतैः पञ्चाक्षरो महाशून्यो वैकारो वज्रसत्त्वो महासुखकुलिशमुच्यते / अत्र पञ्चाक्ष राणि स्वरसंज्ञा(ज्ञीनि) अनुच्चार्याणि; तद्यथा-मध्ये अकारशून्यं कत्तिकाकारम् / 15 दक्षिणे ऋकारशून्यं बिन्दुद्वयम् / वामे उकारशून्यं बिन्दुमेकम् / पूर्वे इकारशून्यं दण्डाकारम् / पश्चिमे लकारशून्यं हलाकृतिः / एवं दीर्घगुणवृद्धियणादेशविकारा ज्ञातव्या इति / एवं बँकारः पञ्चाक्षरो महाशून्यो निरालम्बकरुणात्मकः, परमाणुधर्मतातीतः प्रतिसेनारूपसदृशो योगिगम्य इति / अत्र ज्ञानविज्ञानस्कन्धादीनां स्वराः; तद्यथा-ज्ञानस्कन्धो अं। विज्ञानस्कन्धो 20 अ। ज्ञानधातु अः। आकाशधातुः आ। मन इन्द्रियं अं। श्रोत्रं अ। शब्द अः। धर्मधातु आ। भगो ह। मूत्रस्रावो हः। दिव्येन्द्रियं हं। शुक्रच्युतिः हा। एते मध्यानाहता निरावरणाः कत्ति काकारसंज्ञा[30b]चिह्ननावगन्तव्या इति / संस्कारस्कन्ध इ / वायुधातु ई / घ्राणेन्द्रियं ए। स्पर्श३ ऐ। वागिन्द्रियं य / विस्रावो या / एते पूर्वे निरावरणा दण्डाकारचिह्ननावगन्तव्या इति / वेदनास्कन्धे ऋ। तेजोधातु 25 ऋ। चक्षुरिन्द्रियम् अर्। रस आर्। पाणीन्द्रियं र। गती रा। एते दक्षिणे निरावरणबिन्दुद्वयचिह्ननावगन्तव्या इति / संज्ञास्कन्ध उ / तोयधातु ऊ। जिह्वेन्द्रियं ओ। रूपविषयं औ / पादेन्द्रियं व / आदानं वा। एते निरावरणा मध्यचिह्नादुत्तरेण बिन्दुचिह्ननावगन्तव्या इति। रूपस्कन्ध लु। पृथिवीधातु ल / कायेन्द्रियं अल् / गन्धविषय आल् / पारिवन्द्रियं ल। आलापो ला / एते पश्चिमे निरावरणा हलाकृति30 चिह्ननावगन्तव्या इति / एते षट्त्रिंशभेदभिन्नाः स्वरगुणवृद्धियणादेशविकाराः, यत्र स्कन्धाः पृथक् षट्त्रिंशभेदभिन्ना भवन्ति, तत्र स्कन्धस्थाने षड् रसा गृह्यन्ते–अम्लकषायतिक्तकटुमधुर 1. ख. °मात्रसनु / 2. क. कर्तृ / 3. भो. Reg bya (स्पयं)। 4. क. मध्यचिह्ना उत्तरेण / ..
SR No.004303
Book TitleVimalprabha Tika Part 01
Original Sutra AuthorN/A
AuthorJagannath Upadhyay
PublisherKendriya Uccha Tibbati Shiksha Samsthan
Publication Year1986
Total Pages320
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy