________________ Yio 10 पटले] मण्डलाभिषेकादिसंग्रहोद्देशः (6) मण्डलाभिषेकादिसांग्रहोद्देशः इदानी सूर्यरथाध्येषितः सन् मञ्जुश्रीभगवान् निर्मितकायो यशो नरेन्द्रः परमादिबुद्धात् तथागतव्याकृतं सुचन्द्राध्येषणं द्वितीयवृत्तेनाह शून्यं ज्ञानं च बिन्दुं वरकुलिशधरं बुद्धदेवासुरांश्च बाह्य देहे परे च प्रकृतिषु पुरुषं पञ्चविंशात्मकं च / देहे विश्वस्य मानं त्रिभुवनरचनां भुक्तिदे(A)वासुराणाम् एतद् व्याख्याहि सम्यक् त्रिदशनरगुरोर्मण्डलं चाभिषेकम् // 2 // इहाध्येषणार्थत्वं' पञ्चाक्षरमहाशून्यं बिन्दुशून्यं षडक्षर-षट्कुलादीनां संग्रहार्थ भगवतोक्तमिति, तदिदं विवृणोमि शून्यमित्यादिना। इह प्रथममध्येषणावृत्तेन तन्त्रगुप्तार्थः प्रकाशितः सन् वक्ष्यमाणे सुगमो भवति बालमतीनाम्; तेनादी टोकायां संक्षेपतो वक्तव्य इति / इह शून्यमित्याद्या(दि)भिः [29b] संज्ञाभिरदृष्टदृष्टभावाः प्रकाशिताः प्रत्येकेन्द्रियाणामगोचराः प्रत्येकेन्द्रियाणां गोचरा इति / सर्वत्रासति सति भावेऽपि संज्ञापूर्वको व्यवहारः खपुष्पादौ घटादौ यथा / इह खपुष्पसंज्ञयोद्दिष्टोऽभावो न भावो भवति, एवं घटसंज्ञयोद्दिष्टो भावो नाभावो भवति; स्वसंज्ञया उक्त इति / एवं तन्त्रतन्त्रान्तरेषु शास्त्रसंज्ञाभिर्देशसंज्ञाभिर्मन्त्राक्षरसंज्ञाभिरेकैकाक्षरसंज्ञाभिर्ये तथागतेन भावा निर्दिष्टाः 15 सङ्गीतिकारकैश्च लिखितास्ते सर्वे योगिभिर्नेयार्थेन नोतार्थेनावगन्तव्याः। इहैकस्याप्यभावस्य भावस्य च नानासंज्ञाः। तस्मान्नानासंज्ञाभिनिर्देशितस्यैकस्यापि भावस्य योगिभिः संज्ञाविकल्पो न कर्तव्यः, सद्गुरूपदिष्टस्य सुवर्णवत् सुपरीक्षितस्यार्थशरणताश्रितत्वादिति / इह शून्यादिसंज्ञाभिः षड्धातुरयं महापुरुषपुद्गलः संगृहीतः, शून्यं ज्ञानं च बिन्दुं 20 वरकुलिशधरमित्येभिश्चतुर्दशाक्षरैः; तद्यथा-ज्ञानस्कन्धविज्ञानस्कन्धज्ञानधात्वाकाशधातुमनःश्रोत्रशब्दधर्मधातुदिव्येन्द्रियभगमूत्रस्रावशुक्रच्युतिश्च / एषां निरावरणता समरसत्वमेकलोलीभूतत्वं शून्यमित्युच्यते, न सर्वाभाव इति योगित्व(स्व)संवेद्यत्वात् / तदेवानाहतमुक्तं जिनैः / अस्यानाहतस्य संज्ञाचिह्न सव्यवामपूर्वापरमध्ये कत्तिकाकारं रेखामात्रमनुच्चार्यं प्रथमाक्षरमहाशून्यमिति / ___ ततो ज्ञानञ्चेति अत्र चकारः समुच्चयार्थ उद्दिष्टः, समुच्चयार्थप्रतिपादकत्वात् / ज्ञानमित्यनया संज्ञया तृतीयं शून्यमित्यवगन्तव्यम्; तद्यथा-वेदनास्कन्धतेजोधातुचक्षुरसपाणिगतिश्च / एषां निरावरणता समरसत्वमेकलोलीभूतत्वं ज्ञानं तृतीयाक्षरं महाशून्यमिति / अस्य संज्ञाचिह्न मध्यानाहतचिह्नाद् दक्षिणे बिन्दुद्वयमनुच्चार्यमिति / 1. कु. ०ध्येषणावृत्तं / 2. . पूर्वपुष्पादौ / 3. क. पुस्तके 'रेकैकाक्षरसंज्ञाभिर्ये' इति नास्ति / 25