________________ T258 विमलप्रभायां [लोकधातुस्वाभाविककायः सर्वज्ञ इति / तमोऽभिभूतसुसु(षु)प्तचित्ताभावचित्तं धर्मकायो ज्ञानकाय इति। प्राणोत्पादितसदसत् स्वप्नचित्ताभावचित्तं सम्भोगकायो दिनकरवपुरिति / अनेकविकल्पभावसंज्ञाजाग्रच्चित्ताभावचित्तं निर्माणकायः पद्मपत्रायताक्ष इति / एष वज्रयोगो ज्ञानपटले विस्तरेण वक्तव्यः, अस्मिन् लोकधातुपटले उद्देशमात्रेणोद्दिष्ट इति / एवं ज्ञानचित्तवाक्कायात्मकं योगं पृच्छेत् श्रीकालचक्रे तन्त्रराजे / किं भते ? कलियुगसमये। कलियुगसमय इति कोऽलि: कलिः, ककारादिव्यञ्जनपंक्तिरिति / ककारो मुखं सर्वव्यञ्जनानाम्, आदौ निर्दिष्टत्वात्; रजःस्वभावाद् वा वेदितव्य इति / तथा अस्य समयोऽसमयः, स्वरमेलापक इत्युच्यते। अत्र कोऽलि:-क् ख् ग् घ् ङ् च् छ् ज् झ् ञ् ट् ठ् ड् ढ् ण् प् फ् ब् भ् म् त् थ् द्ध् न स्' ष् स् क इति कोऽलि10 wञ्जनपंक्तिः। अत्रासमयः-अ आ इ ई ऋ ऋउ ऊ ल ल अं अः; अ आ ए ऐ अर् आर् ओ औ अल् आल् अं अः; ह हा य या र रा व वा ल ला ह हः' इति असमयः स्वरमेलापकः। अस्मिन्नसमये कलि यनक्तीति कलियगसमयः, तस्मिन कलियुगसमये कालचक्राभिधाने आदिकादिप्रज्ञोपायात्मके योगतन्त्रे आदिबुद्धे निरन्वये कालचक्रमभिधेयं वज्रयोगं तन्त्रस्वभाव(त)यावस्थितं आदिबुद्धं पृच्छेत् सुचन्द्र इति 15 धर्मदेशनासंग्रहः। इदानी प्रयोजनप्रयोजनप्रयोजनसंग्रह उच्यते-मोक्षहेतोनराणामिति / मोक्षहेतोर्नराणां प्रथमं तावत् मण्डलप्रवेशादिना सत्त्वार्थकरणं प्रयोजनं पुण्यसम्भारेण मण्डलचक्ररूपभावनाबलेन लौकिकसिदिधसाधनमधिष्ठानभावनाबलेन च प्रयोजनं वीरक्रमाधिष्ठानक्रमेणेति / तत° उत्तरोत्तरं'' प्रयोजनस्यापि प्रयोजनमिति प्रयोजन20 प्रयोजनम् / इह आकाशधातौ निर्विकल्पचित्तेन धूमादिनिमित्तेन महामुद्रासर्वाकारविश्व बिम्बरूपेण भावितेन परमाक्षरसुखसाधनेन बुद्धत्वं वज्रसत्त्वं चेति पुण्यज्ञानसम्भाराभ्यां नराणामिह जन्मनीति प्रयोजनप्रयोजनप्रयोजनसंग्रहः। एतत् परमादिबुद्धयोगमतीतबुधैर्देशितं वर्तमानैर्देश्यतेऽनागतैर्देशयिष्यते / अतीतवर्तमानानागतकालैरतीतवर्तमानाना गतसमयैः पर्षद्भिरित्यनन्तानन्तबुद्धक्षेत्रेष्वनन्तानन्तसत्त्वानामनन्तानन्ततथागतेर्बुद्धत्वाय 25 सन्देशितो देश्यते देशयिष्यतीति / इति मूलतन्त्रानुसारिण्यां लघुकालचक्रतन्त्रराजटीकायां विमलप्रभायां देशकादिसंग्रहोद्देशः पञ्चमः // 5 // 1. ख. भो. पुस्तके चन्द्रबिन्दुरहितः; भो. पुस्तके 'सं' पश्चात् 'क्' इति अधिकः पाठः / 2. ख. भो. श् / 3-4. भो. पुस्तके नास्ति / 5-6. भो. पुस्तके नास्ति / 7-8. भो. पुस्तके नास्ति / 9-10. ङ. तदुत्तरोत्तरं। 10. ङ. पुस्तके अत्र 'द्वादशसाहसिकायां' इत्यधिकः पाठः /