________________ 15 पटले] देशकादिसंग्रहोद्देशः मोहोऽमोह इत्येवमादि पक्षः, परस्परापेक्षिकत्वादिति / अनेन पक्षण रहितमप्रतिष्ठितनिर्वाणं बुद्धानां निःस्वभावमिति / एकानेकक्षणरहितं ज्ञानं तत्त्वमित्युच्यते जिनैः / तदेव सत्त्वानां स्वचित्ताशयवशाच्चतुर्विधं प्रतिभासते, षोडशाकारं च / आनन्द-परम-विरम-सहजभेदैश्चतुर्विधम् / ततः कायानन्दो वागानन्दश्चित्तानन्दो ज्ञानानन्दः / एवं कायपरमानन्दो वाक्परमा- 5 नन्दश्चित्तपरमानन्दो ज्ञानपरमानन्दः। एवं कायविरमानन्दो वाग्विरमानन्दश्चित्तविरमानन्दो ज्ञानविरमानन्दः / एवं कायसहजानन्दो वाक्सहजानन्दश्चित्तसहजानन्दो [28a] ज्ञानसहजानन्दः। एवं षोडशाकारतत्त्वं यदा योगी वेत्ति तदा षोडशाकारतत्त्वविदित्युक्तो भगवता। तदेव तत्त्वं सहजकाय इत्युच्यते। ततो धर्मकायः, ततः सम्भोगकायः, ततो निर्माणकायः / एवं सहजवाक् , सहजचित्तम्, सहजज्ञानम् ; धर्मवाक्, 10 धर्मचित्तम्, धर्मज्ञानम्; सम्भोगवाक्, सम्भोगचित्तम्, सम्भोगज्ञानम्; निर्माणवाक् , निर्माणचित्तम्, निर्माणज्ञानमिति चित्ताधिमुक्तिवशात् सत्त्वानां प्रतिभासते। षोडशाकारं तत्त्वमिति, स एव सहजकायः, शून्यताविमोक्षविशुद्धो ज्ञानवज्रः सर्वज्ञः, प्रज्ञोपायात्मको विशुद्धयोग इति। स एव धर्मकायोऽनिमित्तविमोक्षविशुद्धं चित्तवज्रं ज्ञानकायः प्रज्ञोपायात्मको धर्मयोग' इत्युक्तः। स एव सम्भोगकायः, 1 अप्रणिहितविमोक्षविशुद्धं वाग्वजं दिनकरवपुः प्रज्ञोपायात्मको मन्त्रयोग इत्युक्तः / स एव निर्माणकायोऽनभिसंस्कारविमोक्षविशुद्धं कायवज्रं पद्मपत्रायताक्षः प्रज्ञोपायात्मकः संस्थानयोग इत्युक्तः / एवमेतं वज्रयोगं चतुर्विधं बुद्धं पृच्छेद् वज्रपाणिरिति / शून्यताविमोक्षविशुद्धो ज्ञानवज्रः प्रज्ञोपायात्मकः सहजकायः सर्वज्ञताप्राप्तः सर्वज्ञः सर्वदर्शितत्वात् / अनिमित्तविमोक्षविशुद्धः चित्तवज्रः प्रज्ञोपायात्मको धर्मकायः, 20 मार्गाकारज्ञताप्राप्तो ज्ञानकायः, परमाक्षरसुखेनावस्थितत्वात् / अप्रणिहितविमोक्षविशुद्धो वाग्यज्रः प्रज्ञोपायात्मकः सम्भोगकायो मार्गज्ञताप्राप्तः, दिनकरवपुरनन्तानन्तसत्त्वरुतैर्युगपल्लौकिकलोकोत्तरधर्मदेशकत्वादिति / अनभिसंस्कारविमोक्षविशुद्धः कायवज्रः प्रज्ञोपायात्मको निर्माणकायः सर्वाकारज्ञताप्राप्तः पद्मपत्रायताक्षः, अनन्तानन्तनिर्माणकार्ययुगपत्सर्वाकारकायव्यूहऋद्धिस्फरणादिति / एवमेकक्षणाभिसम्बुद्धो ज्ञानवज्रः 25 सर्वार्थदर्शी। पञ्चाकाराभिसम्बुद्धः चि[28b]त्तवनः परमाक्षरसुखः; विंशत्याकारसम्बुद्धो वागवज्रो द्वादशाकारसत्यार्थः सर्वसत्त्वरुतैर्धर्मदेशकः; मायाजालाभिसम्बुद्धः कायवज्रः षोडशाकारतत्त्वविदनन्तमायाजालैः स्फारितकाय इति / इह चतुर्विधं चित्तवज्रं विशुद्धं चतुःकायलक्षणं भवति। दुर्वाररागमलावलिप्तोभयेन्द्रियात्मकतुर्यचित्ताभावचित्तं 30 1. ख. धर्मात्मयोगः; भो. Chos Kyi bDag Nid Kyi sByor Ba (धर्मात्मकयोगः)। 2. भो. Bhaga Dan dBan Po (भगेन्द्रियं) / 3. भो. bsi Pahi Sems Kyi dNos Po Med Pahi Sems (तुर्यचित्तस्याभावचित्तं)।