________________ विमलप्रभायां [लोकधातु "अस्ति-नास्ति-व्यतिक्रान्तो भावाभावक्षयोऽद्धयः / शून्यताकरुणाभिन्नो वज्रयोगो महासुखः / / परमाणुधर्मतातीतः शन्यधर्मविवर्जितः। शाश्वतोच्छेदनिर्मुक्तो वज्रयोगो निरन्वयः" // इति / एवं तन्त्रान्तरेषु वज्रयोगस्तथागतेनोक्तो महामुद्रासिद्धिदायक इति / असौ विशुद्धो वज्रयोग एकक्षणाभिसम्बुद्धः सन् महार्थः परमाक्षरः सहजानन्दः, न कामभवे स्थितः, न रूपभवे स्थितः, नारूपभवे स्थितः; न कामनिर्वाणे स्थितः, न रूपनिर्वाणे स्थितः, नारूपनिर्वाणे स्थितः, भवनिर्वाणाप्रतिष्ठितत्वात्; नोभये स्थितः, परस्परविरोधात् / भवनिर्वाणयोनेक्ष्यं( क्य) छायातपयोर्यथा। यथाग्निर्नरिण्या' (नारण्यां) स्थितः, 10 न सरकाण्डे स्थितः, न पुरुषहस्तव्यायामे स्थितः; एवं सर्वत्र वज्रयोगो बाह्य ऽध्यात्मनि परे योगिनाऽवगन्तव्य इति / इहैकक्षणाभिसम्बोधिर्नाम परमाक्षर(महा) सुखक्षण इति / असौ एकक्षणसम्बुद्धः सर्वक्षणविभावको भवति श्वाससंख्यान्तं यावत् / ततः पूर्णस्तस्मिन् क्षणेऽभि सम्बुद्धः सम्यक्सम्बुद्ध इति / इह यस्मिन् पूर्णक्षणे सर्वतथागता अभिसम्बुद्धास्तस्मात् 19 क्षणात् सर्वधर्माणां नोत्पादो न स्थितिर्न भङ्गः, निरन्वयत्वात् / यस्मिन् क्षणे धर्माणा मुत्पादो भवति, न तस्मिन् क्षणे स्थितिर्भङ्गः। इह यस्मिन् क्षणे स्थितिर्भवति तस्मिन् क्षणे न भङ्गो नोत्पादः / इह यस्मिन् क्षणे भङ्गः सर्वधर्माणां भवति तस्मिन् क्षणे नोत्पादो न स्थितिर्भवति / एवं यथानुक्रमेण सर्वधर्माणां क्षणोत्पादः क्षणस्थितिः क्षणभङ्गो न स्यादिति [27b] युगपच्च न सम्भवति, सर्वधर्माणां सत्येककाले 20 उत्पादस्थितिभङ्गक्षणानां नैक्यम् / अथ यथानुक्रमेणोत्पादक्षणात् स्थितिक्षणः, स्थिति क्षणात् भगक्षणः, भङ्गक्षणादुत्पादक्षणो भवति / एतदेव परमार्थयुक्त्या न घटते / इह प्राक्क्षणादनिरुद्धादपरक्षणो न भवति, तथा निरुद्धान्न भवति / यथा न नष्टबीजादकरो नानष्टबीजादकरो भवति, एवं परमार्थसत्ताभावादेकक्षणो नास्ति, एकानेकविरोधादिति / इह यद् “एकक्षणाभिसम्बुद्धः सर्वक्षणविभावक" इति ( ) तत् प्रथम 25 परमाक्षरसुखक्षणाभिसम्बुद्धः सन् एकविंशतिसहस्रषट्शतपरमाक्षरसुखक्षणभावकः / तदुपरि सर्वक्षणाभाव एकानेकरहितः, परमाद्वययोगो बुद्धानां परमाथः, सत्ता सत्तारहितत्वात् / यावल्लौकिकसत्ता तावदेकानेकविचारः, धर्मागां क्षणिकचित्तप्रतिभासात् यदा क्षणधर्मरहितं चित्तं निःस्वभावमित्युच्यते। अतो निःस्वभावपक्षोऽपक्षो भगवतोक्तः। पक्षो नाम भावोऽभावः, सदसत्, अस्ति-नास्ति, एकोऽनेकः, शाश्वत-उच्छेदः, भवो निर्वाणम्, रूपमरूपम्, शब्दोऽशब्दः, क्षणोऽक्षणः, रागोऽरागः, द्वेषोऽद्वेषः, T257 1. ङ. नैऋत्यां / 2. भो. bDe Ba Chen Po (महासुख)। 3-4. क. पुस्तके 'पूर्णक्षणे' इत्यारभ्य 'यस्मिन्' पर्यन्तं नास्ति पाठः। 5. क. सत्त्वा। .