________________ पटले ] देशकादिसंग्रहोद्देशः वज्रयोगो महार्थः परमाक्षर आदिबु [26b]द्धो निरन्वयः कालचक्रो भगवान् वज्रसत्त्वः सर्वतन्त्रान्तरे प्रसिद्ध इति; स एव भगवान् पारमितानये हेतुलक्षणे प्रज्ञापारमितायाः स्वाभाविककाय' इत्युक्तः / तथा अभिसमयालङ्कारकारिकायां चतुःकारित्रनिर्णये मैत्रेय आह "स्वाभाविकः सुसम्भोगो नैर्माणिकोऽपरस्तथा / धर्मकायः सकारित्रः चतुर्धा समुदीरितः" / / इति / / (अ० स० 1218) स एव भगवान् मन्त्रनये फललक्षणे सहजानन्दः सहजकाय इत्युक्तो ग्राहयग्राहकजितो विज्ञानधर्मतातीतो भवनिर्वाणाप्रतिष्ठितो बद्धानां समाजो देवीनां संवरश्च / अनेन ज्ञानकायेन सहजसमरसत्वमिति नीतार्थः। इहास्य वज्रयोगस्य निरन्वयस्य 10 शाश्वतोच्छेदर्जितस्य लोकोपमामतिक्रान्तस्य अस्ति-नास्ति-बुद्धिपरित्यक्तस्य कुमारिकाया आदर्शप्रतिसेनावत् स्वचित्ताकल्पितस्य प्रत्यक्षदृष्टस्य प्रत्ययार्थस्य सर्वाकारस्य गगनोद्भवस्य समन्तभद्रस्य सर्वेन्द्रियस्य सर्वसत्त्वात्मनि स्थितस्य सहजानन्दस्य हेतुदृष्टान्तविजितस्य भावाभावैकत्ववैधाद् दृष्टान्तो भवति सर्वय(प)क्षग्रहविनाशाय योगिनामिति / यथा लौकिकदृष्टान्तः-घटवैधात् खपुष्पं नास्ति सर्वाभावतः। एवं खपुष्प- 15 वैधात् घटोऽस्ति सर्वभावतः / इत्यनयोः परस्परवैधाद् दृष्टान्तो भवति / एवमुच्छेदवैधाद् भवोऽस्ति सर्वभावतः, भववैधादुच्छेदो नास्ति सर्वाभावतः / उच्छेदशब्देन निर्वाणमभावलक्षणमिति / तथा लोकोत्तर)दृष्टानोऽनयोर्घटखपुष्पयोरेकत्व वैधाद् भवति; अनयोर्घटखपुष्पयोर्लोकसंवृत्या एकत्वं नास्ति, परस्परविरोधात् / येन यत् सत् तदसन्न भवति, यदसत् तत् सन्न भवति, भावाभावस्वरूपतः / येन 20 सल्लक्षणं चित्तं भवति, तेनासल्लक्षणं चित्तं न भवति; येनासल्लक्षणं चित्तं भवति, [*तेनासल्लक्षणं न भवति; येनासल्लक्षणं चित्तं भवति।], तेन सल्लक्षणं न भवति, विरोधादिति / ___ इह पुनः शून्यताकरुणात्मकस्य बिम्बस्य' 'विशु[27a]द्धचित्तस्य कुमारिकाप्रतिसेनोपमस्य न रूपलक्षणम्, परमाणोरभावात् ; नारूपलक्षणम्, शून्ये विद्यमानत्वात् / 25 अतः संवृतिः शून्यतारूपिणी, शून्यता संवृतिरूपिणी; लोकोपमामतिक्रान्तत्वादस्ति तच्चित्तं यच्चित्तमचित्तं शाश्वतोच्छेदधर्मलक्षणापगतं शून्यताकरुणाभिन्नमिति / परमार्थसत्यत उभयचित्तयोर्वैधाद् “अस्ति-नास्ति-व्यतिक्रान्तो भावाभावक्षयो वज्रयोगोऽद्वयः" इति ( ) तथागतवचनं निरन्वयत्वात् / अत्र मूलतन्त्रे भगवानाह.. 1. च. स्वभावकायः / 2. च. सर्वात्मनि / 3. च. सर्वभावतः / 4. क. 0 खपुष्प योरेकरसत्व / 5. ङ. स्वभावतः / 6. च. पुस्तके अत्र 'चित्तं' इति नास्ति / 7. क. ख. विश्वस्य / 8. 'बिम्बस्य विशुद्धचित्त'योरन्तरे सर्वासु पुस्तकेषु अक्षर द्वयात्मकः कश्चित् शब्दो दृश्यते, यो हि अस्पष्टः / *-1 कोष्ठाङ्कितोंशः च. भो. पुस्तकयोः नास्ति /