________________ [लोकधातु विमलप्रभायां "भक्तिर्गुणेषु साधूनां न बुद्धे नेश्वरादिषु / अगुणेष्वपि या भक्तिः सा जडाऽशुभ[26a]कर्मजा // सत्त्वोपकारिणो धर्मा' देशिताः प्राकृतैरपि / प्रिया मेऽप्रिया विद्वद्भिर्देशिता सत्त्वहिंसकाः॥ मातापि राक्षसी लोके स्वपुत्रे भक्षणाशया। यस्या नास्ति दयाऽपत्ये कुतः तस्याः परे जने / / पितृमातृवधो यत्र धर्मो यागादिहेतुकः / उक्तः स्वार्थपरैविप्रैः परेषां तत्र का कथा" / / इति / अतः सर्वज्ञो बुद्धो भगवान् सर्वसत्त्वकारुणिकः५ सर्वज्ञः सर्वरुतैर्धर्मदेशकः, तथा 10 सुचन्द्रो वज्रपाणिर्दशभूमीश्वरोऽध्येषकः सङ्गीतिकारक (श्च) परमादिबुद्धे प्रसिद्धः / इति मूलतन्त्रानुसारिण्यां लघुकालचक्रतन्त्रराज टीकायां विमलप्रभायां सर्वज्ञेत्यादिना तन्त्रराजदेशक-अध्येषकसाधनोद्देशः चतुर्थः // 4 // (5) देशकादिसंग्रहोद्देशः इदानीं वज्रयोगसंग्रह उच्यते-योगं श्रीकालचक्र इत्यादि। इह मन्त्रनये लौकिकलोकोत्तरसत्यमाश्रित्य बुद्धभगवता द्विधा तन्त्रतन्त्रान्तरेष्वर्थो निर्दिष्टः-एको लोकसंवृत्या, द्वितीयः परमार्थत इति / तत्र यो लोकसंवृत्या निर्दिष्टः स नेयार्थः, यः परमार्थतः स नीतार्थः। एतौ द्वावर्थो गुरूपदेशतोऽवगन्तव्यौ शिष्यैः / एवं सर्वतन्त्रान्तरेष्वभिधेयो द्विधा-एको लोकसंवृत्या, द्वितीयः परमार्थतः / यो T 256 20 लोकसंवृत्या स वर्णभुजचिह्नसंस्थानलक्षणः, यः परमार्थसत्यतः स वर्णभुजचिह्नसंस्थान रहितः। अनयोर्यो लोकसंवत्या देशितः, स बाह्यऽध्यात्मनि लौकिकसिद्धिसाधनाय स्वचित्तपरिकल्पनाधर्मो लौकिकसिद्धिफलदायक इति / यः परमार्थसत्येन देशितः, स लोकोत्तर-सर्वाकारवरोपेत-महामुद्रासिद्धिसाधनाय स्वचित्तपरिकल्पनाधर्मरहितः प्रत्यक्षः स्वचित्तप्रतिभासो योगिनां गगने प्रतिभाष(स)ते कुमारिकाया आदर्शादौ प्रतिसेनाव25 दिति / इष्टार्थफलदः फलमक्षरसुखं ज्ञानचित्तम् / अनयोश्चित्तयोरेकत्वं प्रज्ञोपायात्मको 1. क. ख. धर्मो / 2-3. च. पुस्तके 'प्रिया मेऽप्रिया में' इति पाठः / 4. क. ख. ङ. च. व्हेतुके / 5. क. कारणेकः / 6. च. पुस्तके 'सङ्गीतिकारक' इति जास्ति /