________________ 41 पटले] देशकाध्येषकसाधनोद्देशः पुस्तके लिखिताः।, प्रज्ञाहीनत्वाद् यतिभिरिति / इह प्रादेशिकी हरिहरादीनां धर्मदेशना बौद्धर्नानुमोदनीया सर्वसत्त्वकृपया रहिता, संसारदुःखदायिकी (नी) मिथ्याहङ्कारकारिणी जातिवादाभिमानिनीति। इह त्रैधातुके ये सर्वज्ञेन सर्वज्ञभाषया देशिता धर्मा नानासत्त्वभाषान्तरेण सङ्गीतिकारकैः पुस्तके लिखिताः, वेदादिलौकिकार्थ'प्रतिपादकाः, यानत्रयार्थप्रतिपादकाः, 5 लोकसंवतिसत्येन परमार्थसत्येन देशिताः, सर्वसत्त्वानां श्रवणायाध्ययनाय च, तदधिमक्तिकाः सत्त्वास्तान् सर्वज्ञदेशितान् चतुरशीतिसहस्रधर्मस्कन्धान् लौकिकलोकोत्तरार्थप्रतिपादकान् शृण्वन्ति पठन्ति वाचयन्ति धारयन्ति परेभ्यश्च विस्तरेण संप्रकाशयन्ति प्रतिष्ठापयन्ति, पूजयन्ति नानापुष्प नागन्धैर्नानाधूपैर्नानाचूर्ण नावस्त्रै नाघण्टाभिर्नानापताकाभिर्नानाचामरैर्नानाछत्रै नावितानै नामुक्ताहारैर्नानारत्नैर्नानाप्रदीपैर्नानारत्ना - 10 भ[25b]रणैः पूजयित्वा तेभ्यः पञ्चाङ्गप्रणामं कुर्वन्ति / एवं ते सर्वज्ञदेशिता धर्माः परोपकारिणः अधिमुक्तिवशात् परोपकाराय न कस्यचिज्जात्यजातिवशात् ते विहिताः प्रतिषेधितास्तथागतेनेत्यद्यापि नान्तर्धानं गताः। __ तिष्ठतु तावदन्यविषयान्तरम् / इह तथागताभिसम्बुद्धे आर्यविषये भगवति परिनिर्वृते सति सङ्गीतिकारकैर्यानत्रयं पुस्तके लिखितं तथागतनियमेन (नयेन) 15 पिटकत्रयं मगधभाषया, सिन्धुभाषया सूत्रान्तम् ; संस्कृतभाषया पारमितानयं मन्त्रनयम; तन्त्रतन्त्रान्तरं संस्कृतभाषया प्राकृतभाषया अपभ्रंशभाषया असंस्कृतशव(ब)रादिम्लेच्छभाषया इत्येवमादिः सर्वज्ञदेशितो धर्मः सङ्गीतिकारकैलिखितः। तथा वो(भो)टविषये यानत्रयं वो(भो)टभाषया लिखितम्, चीने चीनभाषया, महाचीने महाचीनभाषया, पारसिकदेशे पारसिकभाषया; शीतानद्युत्तरे चम्पकविषयभाषया, वानर- 20 विषयभाषया, सुवर्णाख्यविषयभाषया; तथा नोलनद्युत्तरे रुहय (रुह्म)विषयभाषया सुरस्मा विषयभाषया; एवं कोटिकोटिग्रामात्मकेषु षण्णवतिविषयेषु षण्णवतिविषयभाषया लिखितम् / एवं द्वादशखण्डेषु स्वर्गमर्त्यपातालेषु नानासत्त्वरुतैः सङ्गीतिकारकैर्यानत्रयं लिखितमिति / श्रावकैः श्रावकयानम्, प्रत्येकैः प्रत्येकयानम्, बोधिसत्त्वैः पारमितामहायानम्, मन्त्रमहायानम्, हेतुफलात्मकं नानासङ्गीतिकारकैः सत्त्वानां 25 वैनेयार्थमिति। अनया नानासङ्गीतिकारकैर्नानाविषयभाषया लिखितागमयुक्त्या विचार्यमाणो बुद्धो भगवान् सर्वज्ञः सर्वज्ञभाषया धर्मदेशकः, नान्यो हरिहरादीति / अथ हरिहरादीनां मध्ये एभिर्गुणैः परिपूर्णः कश्चिदस्ति, सोऽप्यस्माकं वन्दनीयः पूजनीयो माननीय इति सर्वथा 1. स. लौकिकार्थे / 2. खा. सर्वसत्त्वार्थं / 3. स. पुस्तके अत्र 'नानादशैंः' इति अधिकः पाठः; भो. पुस्तकेऽपि Me Lon sNa Tshogs (नानादर्शः)। 4. क. ख. तिष्ठन्तु / 5. भो. Nes Pas (नियमेन) / 6. ङ. रुक्म ; भो. Rugma (रुग्म)। 7. ङ. सुरम्मा; भो. Suramma (सुरम्म)। 8. क. हरिहरादीनमिति / *-t. 'पुस्तकानि लिखितानि' इत्यभिप्रत्य 'पुस्तके लिखिताः' इति प्रयोगः /