________________ विमलप्रभायां [लोकधातुवं-वज्री वज्रसत्त्वश्च वज्रभैरव ईश्वरः। हेरुकः कालचक्रश्च आदिबुद्धादिनामभिः॥ नानाविषयसंज्ञाभिः स्थानमाधारलक्षणम् / आधेयश्च' मया प्रोक्तो नानासत्त्वाशयेन च // सर्वज्ञो वज्रधृक शास्ता बुद्धः सिंहासने स्थितः / देशकः कालचक्रस्य सुचन्द्राध्येषितस्त्वया" // अतः सर्वज्ञो बुद्धो भगवान् लौकिक लोकोत्तरधर्मदेशको देवासुरमनुष्याणां शास्ता परमकारुणिकोऽकारणवत्सलः सर्वावरणनिर्मुक्त इति / 5 . अतो हरिहरादीनामपि बुद्धो भगवान् शास्ता सर्वज्ञः / नान्यः कश्चित् त्रिसाह10 स्रमहासाहस्र लोकधातुषु अनन्तानन्तसत्त्वानामनन्तानन्त रुतकैर्युगपच्च लौकिकलोकोत्तर- / ' धर्मदेशकः / कस्मात् ? प्रादेशिकैकदेवजातौ सम्भूतत्वादिति, प्रादेशिकैकसंस्कृतवचनात / न तेषां सा सर्वज्ञभाषा नानाधिमुक्तिकानां सत्त्वानां स्वस्वभाषान्तरेण लौकिकलोकोत्तरधर्म प्रतिपादयन्ती(ती)ति / इह मर्त्यलोके प्रत्यक्षं दृश्यते संस्कृतभाषया तैर्देशिता गीतासिद्धान्तपुराणधर्माः 15 सर्वे प्रादेशिकाः चतुर्वेदाश्च / कुतः ब्रह्मक्षत्रियवेदाध्ययनतः। इह ब्राह्मणक्षत्रियाभ्यां वेदाध्ययनं कर्तव्यम्, न हि विटशूद्रादिभिरिति / तथा गीतासिद्धान्तपुराणधर्मा ब्राह्मणक्षत्रियविटशद्रेश्चतुर्वणः श्रोतव्या ब्राह्मणमखतः, प्रवज्याग्रहणञ्च न कैवर्तादिभिरिति / अतो धर्मप्रतिषेधवचनान्तैर्देशिता धर्माः प्रादेशिकाः सर्वसत्त्वोपकारिणो न भवन्तीति / इह मत्र्ये येन कारणेनप्रादेशिकसंस्कृतभाषया नानाधिमुक्तिकानां सत्त्वानां नानारुतैौकि20 कलो[25a]कोत्तरधर्मदेशनां कर्तुमशक्ताः , तेन विटशूद्रादीनां प्रतिषेधं कुर्वन्ति / इह म] विट्शूद्रादिभिर्निकृष्टयोनिजातैर्वेदाध्ययनं न कर्तव्यम्, प्रव्रज्यादण्डग्रहणञ्चेति / "एकः शब्दः सुप्रयुक्तः स्वर्गे कामधुक्” (महा० भा० 6 / 1 / 84) इति मिथ्याहङ्काराभिभूतानामभिप्रायः, सर्वज्ञभाषाऽभावात् / इह म] 5 लोके यदि सर्वे मनुष्या वेदगोतासिद्धान्ततर्कशास्त्रविदो भवन्ति शूद्रादयः, तदा ब्राह्मणानां को गौरवं करिष्यति; 25 विद्याधर्मज्ञानसाधारणपरिज्ञानात, सर्वेषां गृहवासिनां संसारभोगासक्तानां विशेषगुणाभा वात् / इति ज्ञात्वा दुष्ट-ऋषिभिर्द्रव्यलुब्धैः संस्कृतभाषया गीतासिद्धान्तपुराणादयो धर्माः पुस्तके लिखिताः; वेदाश्च मुखपाठेनाध्ययनीया इति नियमः कृतो बालजनानां महामोहजनक इति असर्वज्ञदेशनाभिप्रायः / इह पूर्वकाले वेदगीतासिद्धान्तपुराणधर्मा न पुस्तके लिखिताः सन्ति; यतीनां मुखे तिष्ठन्ति; ततः पञ्चकषायकालवशात् T255 1. क. आदेयश्च, भो. Rten Pa? (आधेयः) / 2. ख. बुद्ध / 3. ख. नन्ते / 4. क. धर्मे / 5-6. ख. मर्त्यलोके / 7. ख. क / 8. ख. असर्वज्ञदेशना०; क. असर्वज्ञादेशना।