________________ पटले ] देशकाध्येषकसाधनोद्देशः अतः सर्वज्ञो ज्ञानकायः सम्यक्सम्बुद्धो भगवान् ज्ञानकाय इति पुनरुक्तवचनं भगवत इति / ननु यो ज्ञानकायः [24a] स एव दिनकरवपूरज्ञानान्धकारध्वंसकत्वात. किमर्थ पुनरुक्तवचनं दिनकरवपुरिति भगवत इति कस्यचिद् वचनं भविष्यति; तस्मादुच्यतेइह सत्यमिदं वचनं यो ज्ञानकायः स एव दिनकरवपुः, अज्ञानान्धकारध्वंसकत्वादिति / 5 किं तहि, अन्येऽपि विज्ञानवादिनो बौद्धाः सन्ति, तेषां विज्ञानधर्मतानिराकरणाय ज्ञानकायो दिनकरवपुः विज्ञानधर्मतातीतः सम्यक्सम्बुद्ध इति पुनरुक्तवचनं दिनकरवपुरिति / इह विज्ञानवादिनां मध्ये कश्चिन्न ज्ञानकायो दिनकरवपुः सम्यक्सम्बुद्धोऽभूत् / इह कस्माद् विज्ञानवादिनां मध्ये कश्चिन्न च ज्ञान कायो दिनकरवपुः सम्यक्सम्बुद्धोऽभूदित्युच्यते ? इह विज्ञानवादिनां विज्ञानधर्मे स्थितत्वात्' सम्यक्सम्बुद्धस्य विज्ञान- 10 धर्मतातीतत्वादिति / तथा च नामसङ्गीत्यां तथागतेनोक्तं प्रत्यवेक्षणाज्ञानस्तवे त्रयोविंतितमेन श्लोकेन; तद्यथा "विज्ञानधर्मतातीतो ज्ञानमद्वयरूपधृक् / निर्विकल्पो निराभोगस्यध्वसम्बुद्धकायधृक्" // इति / (ना०स० 8 / 23) 15 - अतो ज्ञानकायो दिनकरवपुः सम्यक्सम्बुद्ध इति पुनरुक्तवचनं भगवतः। ननु यः तन्त्रेऽभिधेयः स ज्ञानकायो अरूपी, यश्च पद्मपत्रायताक्षः स रूपी; किमर्थं पद्मपत्रायताक्षमिति भगवतो वचनमिह कस्यचिदभिप्रायो भविष्यति; तस्मादुच्यते-इह हि यद् वक्तव्यं बालजनैः पद्मपत्रायताक्षः तन्त्रेऽभिधेयो रूपी, तन्न, इह पद्मशब्देन नीतार्थेनाकाशधातुरुच्यते, तस्मिन् पझे खधातौ पद्मपत्राणीव शतकुलदीर्घस्वभावत्वेनाव- 20 स्थिताः सत्त्वा इति पद्मपत्राणि, तेषामन्तं यावत्; शताक्षीणि यस्य भगवत आयतानि स. पद्मपत्रीयताक्ष इति / इह नामसङ्गीत्यामुक्तं भगवता आदर्शज्ञानस्तवे षष्ठश्लोकेन; तद्यथा "वज्रज्वालाकरालाक्षो वज्रज्वालाशिरोरुहः। वज्रावेशो महावेशः शताक्षो वज्रलोचनः" // इति / 25 (ना० स० 77) अतो भगवतो वचनात् पद्मपत्रा[24b]यताक्षः सम्यक्सम्बुद्धो भगवान् रूपरहित इति / तं बुद्धं सिंहासनस्थम्, सिंहासनं खधातुः; अपरं चन्द्रसूर्याग्निमण्डलं सिंहासनम्, तस्मिन् स्थितः सिंहासनस्थ इति / इह मूलतन्त्रे भगवानाह- . "ए-रहस्ये खधातौ वा भगे धर्मोदयेऽम्बुजे / सिंहासने स्थितो वज्री उक्तस्तन्त्रातरे मया // 1. ख. व्यवस्थितत्वात् /