________________ विमलप्रभायां [लोकधातुअतोऽनन्तसंज्ञाभिः धर्मदेशकत्वाद् “एवं मया श्रुतम्" इत्यादिना देशितं तन्त्रराज तथागतदेशितं भवति, रहस्येत्यादिना' सर्वज्ञादिना च देशितं तथागतदेशितं न भवतीति बौद्धर्न वक्तव्यम्, स्वसिद्धान्ते परसिद्धान्ते दोषग्रहणात् षष्ठी मूलापत्तिर्भवति / तस्मात् तन्त्रान्तरे पूर्वापरसम्बन्धं ज्ञात्वा गुणदोषावगन्तव्याः (व्यौ)। अन्यथाऽदृष्टदोषग्रहणादवीचिगमनं भवति दुष्टानार्याणां तथागतहृदयबाह्यभूतानां विषयेन्द्रियोपभोगासक्तानां मिथ्याप्रलापिनामिति / एवमुक्तक्रमेण परमागमयुक्त्या पूर्वापराविरुद्ध सर्वज्ञेत्यादिना / परमादिबुद्धं तन्त्रराजं भगवता सन्देशितमिति / __ ननु यः सर्वज्ञः स एव बुद्धो भगवान्, द्वाभ्यां संज्ञाभ्यां एकभावप्रतिपादकत्वादिति भावः'; इदं किमर्थं पुनरुक्तवचनं भगवतो बुद्धमितीह कस्यचिदभिप्रायो भवि10 ष्यति / तस्मादुच्यते-इह सत्य[23b]मेतद् वचनं यः सर्वज्ञः स बुद्धो भगवान् इति / कि तर्हि, अन्येऽपि हरिहरादयः सर्वज्ञत्वेन ब'लजनैः परिकल्पिताः। तेषां सर्वज्ञतानिराकरणाय सर्वज्ञो बुद्धो भगवान् इति वचनम् / इह नान्यः सर्वज्ञस्त्रैधातुके . . हरिहराणां मध्ये यः सर्वधर्माणां सर्वसत्त्वरुतकैर्देशक इति / इह कस्मात् तेषां मध्ये सर्वज्ञः सर्वसत्त्वरुतकैः सर्वधर्मदेशको न भवतीत्युच्यते / इह षड्गतिसंसारे देवजातो 15 हरिहरादीनां सम्भूतत्वात्; बुद्धभगवतः संसारपारकोटिव्यवस्थित्वादिति / इह नामसङ्गीत्यां तथागतेनोक्तं सुविशुद्धधर्मधातुस्तवे त्रयोदशमेन श्लोकेन ; तद्यथा "संसारपारकोटिस्थः कृतकृत्यः स्थले स्थितः / कैवल्यज्ञाननिष्ठूतः प्रज्ञाशस्त्रविदारणः" // इति / . (ना० स० 6 / 13) अतः सर्वज्ञो बुद्धो भगवान् बुद्धमिति पुनर्वचनं न भवतीति / ननु यः सर्वज्ञः स एव ज्ञानकायः, किमर्थं ज्ञानकाय इति पुनर्वचनं भगवतः ? तदेवोच्यते। इह यः सर्वज्ञः स एव ज्ञानकाय इति तत् सत्यम् / किं तर्हि, अन्येऽपि T254 बुद्धाः श्रावकप्रत्येकाः सन्ति; तेषां सम्यकसम्बुद्धत्वनिराकरणाय सर्वज्ञो ज्ञानकायः सम्यक्सम्बुद्धो भगवान् ज्ञानकाय इति पुनरुक्तवचनं भगवतः। इह श्रावक प्रत्येकबु द्धानां मध्ये न कश्चिद् ज्ञानकायः सम्यक्सम्बुद्धोऽभूदिति / इह. कस्मान्न श्रावकप्रत्येक25 बुद्धानां मध्ये कश्चित् सम्यक्सम्बुद्धोऽभूदित्युच्यते / इह श्रावकबुद्धानां सोपधिनि वोणं स्थितत्वादिति, सम्यक्सम्बुद्धस्य सर्वोपधिविनिर्मुक्तत्वात् / तथा च नामसङ्गीत्यां भगवतोक्तं प्रत्यवेक्षणाज्ञानस्तवे एकादशमश्लोकेन; तद्यथा "सर्वोपाधिविनिर्मुक्तो व्योमवर्त्मनि सुस्थितः / महाचिन्तामणिधरः' सर्वरत्नोत्तमो विभुः" / / इति / (ना० स० 8 / 11) 1. घ. रहस्यादिना। 2. घ. पुस्तके 'न' इति नास्ति / 3. भो. Chags Pa (आसक्तानां); क. ०अशक्तानां / 4. घ. पुस्तके नास्ति / 5. ख. हरिहरादीनां / 5. ख. पुस्तके अत्र 'श्रेष्ठः' इत्यधिकः / / 20