________________ पटले] देशकाध्येषकसाधनोद्देशः "वज्रभैरवभीकरः। क्रोधराट् षणमुखो भीमः षण्णेत्रः षड्भुजो बली / दंष्ट्राकरालककालो हलाहलशताननः" / / इति / (ना० स० 6 / 25; 71) अतो भगवतो वचनात् तन्त्रतन्त्रान्तरेष्वभिधेयस्त्रिमुखश्चतुर्मुखः पञ्चमुखः षण्मुखः शतमुखोऽवगन्तव्य इति / इह समाजादिके एकारेण यत् स्थानं भगवतोक्तं तदेव स्थानं रहस्येत्यादिशब्देन लक्षाभिधानादिके भगवतोक्तम् / यो वंकारेणाभिधेय उक्तः स एव महासुखशब्देन वज्रसत्त्व उक्त इति / एवमुक्तक्रमेण चतुःकुलात्मके परमादिबुद्धे षट्कुलात्मके चतुःकुलात्मकोऽभिधेयः षटकुलात्मकश्चेति / सर्वज्ञेत्यादिभिः त्रयोविंशत्यक्षरैर्भगवतोद्दिष्टः शून्यताकरुणाभिन्नो' बोधिचित्तवज्रो महासुख इति / इह सिंहासनशब्देनाकाशधातुः सर्वा- 10 कारः [23a], तस्मिन् सिंहासने स्थितः सिंहासनस्थः। बुद्ध इति वज्रसत्त्वः / योग इति महार्थः परमाक्षर इति / असौ योगो नामसङ्गीत्यां वज्रधातुमण्डलस्तवे चतुर्दशश्लोकैः सङ्गीतः "तद्यथा भगवान् बुद्धः सम्बुद्धोऽकारसम्भवः / अकारः सर्ववर्णाग्रयो महार्थः परमाक्षरः / / महाप्राणो ह्यनुत्पादो वागुदाहारवर्जितः। सर्वाभिलापहेत्वग्रयः सर्ववाक्सुप्रभास्वरः" / (ना० स० 5 / 1, 2) इत्यादिना "महाविद्योत्तमो नाथो महामन्त्रोत्तमो गुरुः / महायाननया रूढो महायाननयोत्तमः' / (ना० स० 5 / 14) इति पर्यन्तं सर्वतन्त्रान्तरेषु' असावभिधेयो सङ्गीतः, मध्योत्तमसत्त्वाशयवशेनेति / तथा शून्यं ज्ञानं चेत्यादिभिश्चतुर्दशाक्षरैः षट्कुलात्मकोऽभिधेयः। स एव सङ्गीतो नामसङ्गीत्यामपि कृत्यानुष्ठानज्ञानस्तवे द्वितीयश्लोकेनोक्तः; तद्यथा "सर्वमन्त्रार्थजनको महाबिन्दुरनक्षरः / पञ्चाक्षरो महाशून्यो बिन्दुशून्यः षडक्षरः" // इति / 25 (ना० स० 10 / 2) 1. घ. करुणात्मको। 2. क. रथा / 3. घ. तन्त्रराजेषु /