________________ विमलप्रभायां [लोकधातुतन्त्रोक्तविधिना गुरूपदेशेन शिष्यस्य प्रत्ययो न भवति, तदा भगवतो मृषा वचः। अथ गुरुस्तन्त्रोक्तविधिना शिष्यस्य मार्गदायको न भवति, तदा न भगवतः प्रतिज्ञा मृषा भवति, गुरोर्मार्गापरिज्ञानात्, विपरीताविशुद्धमार्गभावनाप्रतिपादकत्वादिति / इह न चान्यन्मण्डलचक्रसाधनानिमित्तं दिनमेकं परीक्षयेत्, धूमादिनिमित्तं विहाय भगवतो 5 वचनमिति / अत्र त्रिकुलात्मके तन्त्रराजे कायवाञ्चित्तकुलात्मकोऽभिधेयः त्रिमुखः, चतुःकुलाT 253 त्मके कायवाञ्चित्तज्ञानात्मकोऽभिधेयश्चतुर्मुखः; ज्ञानकेन' कुलेन सह चतुःकुलात्मक तन्त्रं भवति, अभिधेयश्च / तथा पञ्चकुलात्मकं स्वभावैकेन सार्द्ध षटकुलात्मकं भवति / अत्र चतुःकुलात्मके तन्त्रे चतुःकुलात्मकोऽभिधेयः सूर्य-चन्द्र-राहु-अग्नि [22b] रजः10 शुक्र-चित्त-ज्ञानैकयोग इति / इह नामसङ्गीत्यां प्रकटः सङ्गीतो वज्रयोगस्तथागतेनेति प्रत्यवेक्षणाज्ञानस्तवे त्रयस्त्रिंशत्तमादिश्लोकत्रयेण; तद्यथा "वज्रसूर्यमहालोको वज्रन्दु विमलप्रभः। विरागादिमहारागो विश्ववर्णोज्जवलप्रभः / / *सम्बुद्धवज्रपर्यङ्को बुद्धसङ्गीतिधर्मधृक् / बुद्धपद्मोभवः श्रीमान् सर्वज्ञज्ञानकोशधृक् / विश्वमायाधरो राजा बुद्धविद्याधरो महान् / वज्रतीक्ष्णो महाखड्गो विशुद्धः परमाक्षरः" / / इति / .. (ना० स० 8 / 33, 34, 35) अतो भगवतो वचनात् चतुःकुलात्मकोऽभिधेयो वज्रसत्वो विशुद्धधर्ममन्त्रसंस्थापनात्मकः कालचक्रो भगवानिति / एवं पञ्चकुलात्मकः स्कन्धधातुभेदेन / तथा 20 मायाजाले भगवानाह "पञ्चाननः पञ्चशिखः पञ्चचीरकशेखरः। महाव्रतधरो मौञ्जी ब्रह्मचारी व्रतोत्तमः" // (ना० स० 8 / 17, 18) एवं स्कन्धधातुभेदेन षटकुलात्मकोऽभिधेयः; शतकुलात्मकोऽपि वक्त्रभेदेन भगवतोक्त इति विशुद्धधर्मधात्वन्तिमश्लोकपादेन सार्द्ध आदर्शज्ञानस्तवे प्रथमश्लोकेन; 25 तद्यथा 3. स. पुस्तके 'ना' इति 1. ख. घ. स्वभावैकेन / 2. ख. वज्रन्दु; क. वजेन्द्र / नास्ति / 4. ङ. चक्र० / * घ. पुस्तके अत्र 39-40 पत्रयो क्रमव्यत्ययो जातः।