________________ पटले1 देशकाध्येषकसाधनोद्देशः तन्त्रराजे लुप्तिर्नेष्यते। न चेदक्षरद्वयं भगवता ताल्वादिना देशितम्, न चाश्रुत्वा सङ्गीतिकारेण लिखितमिति / अतोऽस्याक्षरद्वयस्य नीतार्थ उच्यते . पूर्वोऽकारः खधातुर्गुह्यकमलम्, ततो विसर्गः सूर्यो रजः, ततोऽकारो राहुविज्ञानं सुखाधिष्ठितम्, ततोऽनुस्वारः चन्द्रः शुक्रम् / अनयोरकारयोः खधातु-राहुविज्ञानयोर्मध्ये विसर्गः सूर्यः रजः इत्वमा पद्यते। ततो विसर्गे सूर्यरजसि उत्वमापन्ने सति परमार्थसत्ये 5 गुणाभावः, गुणाभावाद् यणादेशः स्यादिति / पर-अकारेण राहुविज्ञानेन सहवत्वम्, अनुस्वारः चन्द्रशुक्रेण संयोगः, अतो वंकारः। तथा पूर्वोऽकारः खधातुर्गुह्यकमलं सप्तम्यन्तो अकारः पर-इकारेण सह गुणी भवति, अत एकारः। अस्मिन्नेकारे खधातौ आधारे वंकार आधेय विसर्गाकारानुस्वारसूर्यराहुचन्द्ररज आलयविज्ञानशुक्रात्मको मध्ये बाह्ये देहे परे चावगन्तव्य इति / इह मूलतन्त्रे भगवानाह "एकारे मध्यवंकारः सर्वबुद्धसुखालयः / खधातौ वज्रसत्त्वोऽयं कायवाञ्चित्तयोगतः / / कायो बिन्द्विन्दु शुक्रं च वाग्विसर्गो रजो रविः। चित्ताकारस्त्वमी प्रोक्ता एखधातौ व्यवस्थितः / / कायवाञ्चित्तयोगेन कायवाञ्चित्तमण्डले / कायवाञ्चित्तरागेण संस्थितस्त्रिभवात्मनि" // इत्यनेन हेतुना देवानां परिपाचनाय सम्यक्सम्बुद्धत्वलाभाय च समाजादिके तन्त्रराजे "एवं मया [22a] श्रुतम्" *इत्यादिना विजहारस्थाननिर्देशः तथागतेनोक्त इति / "एवम्" इत्यनया संज्ञया यो भावः श्रीसमाजादावुक्तः, स एव भावो लक्षाभिधानादौ तन्त्रराजे "रहस्य" इत्यादिना तथागतेनोक्तः, स च गुरूपदेशात् तन्त्रतन्त्रान्तरे 20 सन्ध्याभाषान्तरेणावगन्तव्य इति / अत्र मूलतन्त्रे भगवान ाह "सन्ध्याभाषं तथा नैव रुतं चैव तथा न च / नेयार्थं न च नीतार्थं तन्त्रं षट्कोटिलक्षणम्" // अतो भगवतो वचनान्नैका संज्ञा प्रधाना स्यादिति / इह मन्त्रनये' त्रिविधः प्रत्ययो भगवतोक्तः-प्रथमं तावत् तन्त्रप्रत्ययः, ततो 25 गुरुप्रत्ययः, तत आत्मप्रत्ययः / एभिस्त्रिभिः प्रत्ययैः परिशुद्धः सम्यक्सम्बुद्धमार्गो भवति; अन्यथा त्रिभिः प्रत्ययैविना यो मार्गो गुरुणा कथ्यते, शिष्यस्य सम्यक्सम्बुद्धत्वफलदायको न भवति, शिष्यस्य श्रद्धाजडत्वात् / लौकिकं फलं भवति संवृतिसत्येनेति / इह तन्त्रान्तरे भगवता प्रतिज्ञा कृता-विकल्परहितं चित्तं कृत्वा दिनमेकं परोक्षयेत् निमित्तम्, यदि 1. अत्र ख. पुस्तके एकोऽधिकः 'मा' शब्दः। 2. क. ख. शुक्रामेको; भो, शुक्रात्मको / 3. भो. rTen Pa (आधारः) / 4. ख. नेयार्थ / 5. ॐ. मन्त्रयाने / * इति यावत् ङ पुस्तके त्रुटितम् /