________________ T 252 विमलप्रभायां [ लोकधातुइत्वेवमाद्यध्येषणा सुचन्द्रराज्ञः परमादिबुद्धे / तथा योगानुविद्धे (तन्त्रे) विश्वरूपिणी आह "श्रीविश्वरूपिणी नत्वा पृच्छते वज्रभैरवम् / तन्त्रं योगानुविद्धं किं वज्रसत्त्वः परं सुखम्" / / 5 इत्याद्यध्येषणा योगानुविद्धे / तथा लक्षाभिधाने वज्रवाराही आह "प्रणम्य वज्रवाराही हेरुकं त्रिभवात्मकम् / तन्त्रं लक्षाभिधानं किं[21a]वज्रसत्त्वः परं सुखम्" / इत्याद्यध्येषणा लक्षाभिधाने। एवमन्येष्वपि तन्त्रराजेषु योगिनाऽध्येषणा ज्ञातव्येति / 10 अतो भगवतोऽनन्तधर्मदेशकत्वात् बोद्धर्न वक्तव्यम्-"एवं मया श्रुतम्" इत्यादिना / सर्वतन्त्रराजेषु विजहारस्थाननिर्देश इति / अनेन प्रादेशिकसंस्कृतवचनेन बुद्धोऽपि प्रादेशिको भवति, सर्वसत्त्वरुतस्वभाविन्या सर्वज्ञभाषया विना। इहार्यविषये शब्दवादिनां तोथिकानां पण्डितानामभिमानं दृष्ट्वा बालमतीनां बौद्धानामभिप्रायः, यथा ब्रह्महरिहरादयः संस्कृतवतारो ब्राह्मणवैष्णवशैवादीनामिष्टदेवता, तथाऽस्मदीया इष्टदेवता बुद्धबोधिसत्त्वाः संस्कृतवतारो भवन्तीति। इह न च ते अनेन प्रादेशिकसंस्कृतवचनेन सर्वसत्त्वरुतैर्धर्मदेशकाः सङ्गीतिकारका भवन्ति, बद्धबोधिसत्त्वाः सर्वज्ञभाषया विना। अतो देवजातिप्रतिबद्धा प्रादेशिका बुद्धबोधिसत्त्वानां न स्यादिति, नानासत्त्वरुतधर्मदेशकत्वात् / इह मन्त्रनये एकसंज्ञा न भावः, एकस्यापि भावस्यानेकाः संज्ञाः, संज्ञाबहुत्वात् / 20 न चैका संज्ञा प्रधाना स्थात्, सर्वसंज्ञानात्मका भावप्रतिपादकत्वात / यथा स्त्री-नारी युवतीत्यादीनां नैका स्त्रीसंज्ञा प्रधाना स्यात्, सर्वासां स्तनकेशवतीभावप्रतिपादकत्वात्; तथा एकार-रहस्य-पद्म-धर्मोदय-खधातु-महासुखावाससिंघा (हा)सन-भग-गुह्य-संज्ञानां मध्ये नैका एकारसंज्ञा प्रधाना, सर्वासां सर्वाकारशून्यताप्रतिपादकत्वात् / तथा वंकार महासुरत(सुख)-महाराग-सहज-परमाक्षर-बिन्दु-तत्त्व-ज्ञान-विशुद्धचित्त-संज्ञानां मध्ये न 25 एका वंकारसंज्ञा प्रधाना, सर्वासां महामुद्रा-सहजानन्दाक्षरसुखप्रतिपादकत्वादिति / एवमेकार-वंकारयोः सर्वाकारवरोपेता शून्यता, सर्वधर्मनिरालम्बकरुणाऽभिन्नबोधिचित्तभावप्रतिपादकत्वात् / एवंकारो वज्रसत्त्वो बोधिचित्तं कालचक्रः [21b] आदिबुद्धः प्रज्ञोपायात्मको योगः ज्ञेयज्ञानात्मकः अद्वयः अनादिनिधनः शान्तः समाजः संवर एवमाद्यनेकसंज्ञाभिः प्रज्ञोपायात्मकोऽद्धयो योगो निरन्वयो योगिनाऽवगन्तव्य इति / इह यत् समाजादौ तन्त्रराजे एकारो वंकारस्तन्त्रादौ भगवता निरुक्तिरूपेण निर्दिष्टः, तद् देवानां देवरुतेन पाचनाय सङ्गीतिकारेणापि तन्त्रादौ लिखितम्; अतोऽस्याक्षरद्वयस्य समाजादी 1. ख. संज्ञानाल्पका० /