________________ पटले देशकाध्येषकसाधनोद्देशः "रहस्ये सर्वदूतीनां सर्वसत्त्वात्मनि स्थितः / सर्वदूतीमयः सत्त्वो वज्रसत्त्वो महासुखः" / इत्यादिना विजहारस्थाननिर्देशः / स च गुरूपदेशादवगन्तव्य इति / तथाध्येषकः श्रीसमाजे–“अथ स वज्रपाणिर्वज्रधरभगवताधिष्ठितः सन्नेवमाह' 'देशयतु' भगवान् महातन्त्रराजं सर्वतन्त्रनिरुत्तरम् / सर्वबुद्धानां श्रीसमाजं सर्वबुद्धाभिधानकम्' // इति / एवमादिना वज्रपाणेरध्यषणा; एवं मायाजालेऽपि वज्रपाणिरध्येषकः प्रसिद्धो नामसङ्गीत्यामिति / इह परमाविबुद्धो अध्येषकः सत्त्वानां क्लेशनाशाय भगवता चोदितः सन् "कायवाञ्चित्तयोगेन शास्तुः पादाम्बुजद्वयम् / रत्नपुष्पैः समभ्यर्च्य सपुष्पाञ्जलिना पुनः // शिरसा जानुयुग्मेन भूगतेन प्रणम्य च / ततो भूभ्यां समस्थाप्य दक्षिणं जानुमण्डलम् // ललाटे करपुटां दत्वाऽध्येषणा कुरुते नृपः / देशयित्वाखिलं शास्ता सर्वतन्त्रनिरुत्तरम् // आदिबुद्धं सदा सर्वं सिद्धिसन्दोहलक्षणम् / योगं श्रीकालचक्रेऽस्मिन्नालिके(का)लिसमन्विते // एकक्षणाभिसम्बुद्धं चतुःक्षणविभेदितम् / चतुबिन्दुधरं तत्त्वं भिन्नं षोडशभेदतः // शून्यं ज्ञानं च बिन्दं च वरं वज्रधरं महत् / पञ्चाक्षरं महाशून्यं बिन्दुशून्यं षडक्षरम् // बुद्धदेवासुरानेव बाह्ये देहे परेषु च / पुरुषं प्रकृतिष्वेवं पञ्चविंशति(त)मं परम् // देहे विश्वस्य मानं यत् त्रैलोक्योत्पतिकारणम् / भुक्तिं देवासुरादीनां सर्वमेतत् यथा स्फुटम्" / 1. क. देशयन्तु /