________________ विमलप्रभायां [ लोकधातु(धर्मदेशना)' / तथा रुक्मस्योत्तरे' सुरम्यविषये कोटिग्रामभाषया ध[20a]र्मदेशना; तद्यथा-अकमयसत् (द), बलवत्त विरट, मनिक, अकुट, वरदत्त, जिगित(ति) वरदत्त" इत्यादिना धर्मदेशना। एवमनेकदेशविषया यानत्रयदेशना तथागतस्य, नैकया "एवं मया श्रुतम्” इत्यादिना संस्कृतभाषयेति / अथ संस्कृतभाषयापि सङ्गीतिकारकैलिखितेषु तन्त्रराजेषु कुत्रचित् “एवं मया श्रुतम्" इत्यादिना विजहारस्थाननिर्देशः, कुत्रचिन्न / प्रथमं तावत् “एवं मया श्रुतम्" इत्यादिना विजहारस्थाननिर्देशः पञ्चविंशतिसाहस्रिके श्रीसमाजे षोडशसाहसिके मायाजाले इत्याद्यनेकतन्त्रराजेषु, कुत्रचिन्नास्ति / प्रथमं तावत् द्वादशसाहसिके परमादिबुद्धे षट्त्रिंशत्साहिस्रके योगानुविद्ध महालक्षाभिधाने। एवमनेकतन्त्रराजेष्वपि / तथा 10 मूलतन्त्रराजेषु तथा तदुद्धृतेष्वपि लघुतन्त्रेषु कुत्रचिद् “एवं मया" आदिना देशना, कुत्रचिन्न स्यादिति / इह श्रीसमाजे* भगवानाह-"एवं मया श्रुतमेकस्मिन् समये भगवान् सर्वतथागतकायवाञ्चित्तवज्रयोषिद्भगेषु विजहार" इति / (भा०च०, पृ० 90 ए, .. पंक्ति 2) / विजहारस्थाननिर्देश; एवं मायाजालेऽपि ''एवं मया श्रुतम्" इत्यादिना विजहारस्थाननिर्देशः / एवमन्येष्वपि मूलतन्त्रलघुतन्त्रराजेषु विजहारस्थाननिर्देश इति / इह परमादिबुद्ध भगवानाह "सर्वज्ञो ज्ञानकायो यो मार्तण्डवपुरव्ययः / पद्मपत्रायताक्षः श्रीबुद्धः सिंहासने स्थितः // कायवाकचित्तरागात्मा वज्रसत्त्वोऽधिदेवता / कायवाञ्चित्तरागेण कायवाञ्चित्तमण्डले // , अभेद्यो वज्रयोगोऽसौ कालचक्रोऽक्षरः सुखः / अनादिनिधनो बुद्ध आदिबुद्धो निरन्वयः / / सर्वतो वज्रसौभाग्यः सर्वतो विश्वसंवरः। द्वादशाकारसत्यार्थः षोडशाकारतत्त्वधृक्" // ' (श्रीकालचक्रगर्भ नाम तन्त्र, भा० क; पंक्ति बी 1, 3) इत्यादि विजहारस्थाननिर्देशः परमादिबुद्धे / तथा षट्त्रिंशत्साहस्रिके योगानुविधे 25 भगवानाह "डाकिनीवज्रपद्मस्थ एकोऽसावधिदेवता / सहजानन्दरूपेण संस्थितास्त्रिभवात्मनि" // 15 इत्या [20b]दिना विजहारस्थान निर्देशो योगानुविद्धे / तथा लक्षाभिधाने भगवानाह 1. सा. धर्मदेशना इति अधिकः। २.स. रुह्नस्यो०; भो. रुकमस्यो। 3. खा. अकमपसत्; भो. अकमयसत् / 4. सा. बलद्दत्त / 5. भो. जिगिति / * सर्वतथागतकाय-वाक्-चित्तरहस्यो गुह्यसमाज नाम महाकल्पराजः। .