________________ पटले लोकधातुसंग्रहोद्देशः (घ) राह्वायत्पादसंग्रहोद्देशः इदानीं राह्वाद्युत्पादसंग्रहवृत्तं षष्ठं वितनोमीति वामाङग इत्यादिवामाङ्गे श्वेतदीप्तिर्जगदमृतकला दक्षिणे रक्तवर्णा राहुः कालाग्निचन्द्रौ रविशशितनयौ भौमशुक्रो गुरुश्च / केतुर्मन्दश्च वृष्टिः पविजलशिखिगः (नः) सप्तयुग्मानि लोके दीप्तानां विद्यमानानि तु विगततमो युग्ममेकं तमोऽन्ते // 6 // 5 वामाने श्वेतदीप्तिरिति / वामाङ्गे प्रागुक्तस्यानाहतस्य मध्ये स्थितस्य अर्ध'वज्र'चिह्नसंज्ञितस्य बिन्दुरेकः, स च श्वेतदीप्तिः श्वेतज्ञानरश्मिरिति / जगदमृतकला स एव दक्षिणे रक्तवर्णा इति / तस्यानाहतस्य दक्षिणे विसर्गचिह्नसंज्ञिता रक्तदीप्तिः रक्तज्ञानरश्मिरिति / तयोर्बाह्ये वामे च दक्षिणे च यथासंख्यं राहुः कालाग्निश्च भवति / ततश्चन्द्रसूर्यश्च भवति / एवं बुधो मङ्गलः शुक्रो बृहस्पतिः केतुः शनिः / वृष्टिविद्युत् 10 (पति) जलमग्नि(शिखिन)रिति सप्तयग्मानि लोके लोकधातौ विद्यमानानि / तं"। नियमार्थम् / एषु मन्त्रपदानि यथासंख्यं वामे च दक्षिणे च / अं अः, उ ऋ, ऊ ऋ, ओ अर्, औ आर्, व र, वा रा इति सप्तयु[36b]ग्मानि सप्तवाराणामधिदेवता इति / विगततमो युग्ममेकं तमोऽन्ते / तमोरहितं श्वेतरक्तज्ञानरश्मिरूपं अनाहतस्य वामे सव्ये अनाहताङ्गं नान्यदिति / पृष्ठे पीता च तारा सुरधनुरवनिः सा चतुर्धा द्विभेदा प्राणो नामैकवायुर्भवति दशविधो मूर्ध्नि मले च पूर्वे / मध्ये वज्रो बीजं गुणगणसहिता संस्थिताधः स्वशक्ति...र्ज्ञानं सर्वत्र शून्यं शिवपदसहितं सर्वभावैविमुक्तम् // 7 // पृष्ठे पीता चेति चकारात् पीतज्ञानरश्मिरित्यर्थः / पृष्ठे अनाहतस्य' हलाकृतिः 20 चिह्नसंज्ञिता तस्या बाह्ये साकारा पश्चिमे पीतदीप्तिः। ततः सूक्ष्मतारा, बृहत्तारा, एवं सुरधनुः / अवनिद्विधा मृत्-पाषाणरूपा / एवं सा पीता दीप्तिश्चतुर्धा द्विधा (द्विभेदा) भवति / प्राणो नामैकवायुर्भवति दशविधो मूनि मूले च पूर्वे इति / तस्यानाहतस्योर्चे श्यामरश्मिः; बाह्ये शून्यबीजसम्भवः प्राणवायुः, अधो नीलरश्मिः, बाह्ये ज्ञानबीजसम्भूतोऽपानवायुः। पूर्व कृष्णरश्मिः, बाह्ये समानो नामवायुः। ततः उदानः, एवं 25 व्यानो नागः कूर्मः कृकरः देवदत्तो धनञ्जयश्चेति दशवायवः / एषामध ऊर्ध्वमेकयुग्म पूर्वापरं वायुभूम्योः। सप्तयुग्मानि धनञ्जयो नपुंसको मृतकायापरित्यागादिति / एषु 1-2. क. उर्ध्ववज्र; भो. hKhyog Po Ched (अर्धवक्र)। 3-4. भो. Cha Ses De Niddo (कला स एव)। 5. क. तु। 6-7. क. अनाहतसाहत्वाकृति /