________________ विमलप्रभायां [लोकधातुमन्त्रपदानि ऊर्ध्वाधः / ह हा / ततः' पूर्वापरं यथासंख्यम् / अ आ; इ लू; ई लू; ए अल; ऐ आल; यल याला; क्ष इति सप्तयुग्मानि / पूर्वापरम्'। ऊर्ध्वाध एक युग्मम् / तमोऽन्ते / सप्तयुग्मानि सप्तवाराणामधिदेवताः, चतुःसन्ध्याभेदेन आदित्यवारे अर्द्धरात्रे पूर्वोदये अ। दक्षिणोदये अः / पश्चिमोदये आ। उत्तरोदये अं। सोमे इ ऋ ल उ / मङ्गले ई ऋल ऊ। बुधे ए अर् अल् ओ। बृ[37a]हस्पतौ ऐ आर् आल् औ। शुक्रे य र ल व / शनैश्चरे या रा ला वा / इति सप्तवाराणां सन्ध्याबीजानि यथाक्रममिति / मध्ये वज्रो+बोजमिति / ऊर्ध्वाधः पूर्वदक्षिणपश्चिमोत्तरबीजानां मध्ये अनाहतं वज्रं कर्तृकाकारं तस्योर्ध्वबीजमनुस्वारं वामाङ्गे यत् स्थितं तद् उपरि भवति / गुणगणसहिता संस्थिताधः स्वशक्तिः। तस्यानुस्वारस्य शक्तिविसर्गः। तस्य गुणा 10 रक्तरश्मयः / तैः सहिता शक्तिः, गुणगणसहिता अधोऽनुस्वारस्यार्द्धचन्द्राकृतिः। स्थिता स्वशक्तिरिति / पूर्वापरचिह्न पादे शिरसि अनाहतस्य अनुक्तत्वादिति / एवं पञ्चाक्षरो वकारो वज्रसत्त्वविषये, हँकारो वज्रानङ्गसाधने इति / तस्य बाह्ये षडक्षरो बिन्दुशून्य .. आधार इत्युच्यते, कारपक्षे हँकारपक्षे क्षकारो योनिरिति वज्रं पद्मञ्चेति / . ज्ञानं सर्वत्र शून्यमिति / ज्ञानशब्देन विसर्गः, अनाहतोज़मर्द्धचन्द्राकृतिः सर्वत्र 15 सर्वस्मिन् बाह्यवर्णे भवति / शून्यं सर्वत्र बिन्दुरिति / शिवपदसहितं सर्वभावैविमुक्त मिति / शिवमनाहतम्, तस्य पदं पूर्वापरचिह्नम्, तेन सहितं शिवं सर्वभावैविमुक्तम्, तदेव सर्वत्र सर्वस्मिन् बाह्ये वर्णधर्मे पादे शिरसि वायुपथिव्यौ यथासंख्यम् / शिर उपरि कला, कलोपरि बिन्दुः, बिन्दूपरि नादोऽनाहताख्य इति / अस्य मन्त्रपदानि एँ वै क्ष हैं अँ अँ आँ५ अ इ ई ऋ ऋ उँ ॐ एँ ऐं अर' आर अलँ आलं ओं 2. औं हैं हाँ य याँ र राँ वाँ सँ लाँ' क्ष। एवं सर्वमन्त्रपदेषु व्याप्यस्य (व्याप्येषु) पञ्चाक्षरो महाशून्यो व्यापको वेदितव्य इति / अस्योद्देशतन्त्रराजे मायाजाले भगवतोक्त: "विश्वमायाधरो राजा बुद्धविद्याधरो महान् / . वज्रतीक्ष्णो महाखड्गो विशुद्धः . परमाक्षरः॥" 25 तथा (ना० स० 8 / 35) "निष्कलः सर्वगो व्यापी सूक्ष्मो बीजमनानवः / अरजो विरजो विमलो वान्तदोषो निरामयः // " (ना० स० 8 / 21, 2, 22, 2) इति राहाद्युत्पादसंग्रहोद्देशः / 1. क. तथा / 2. क. पूर्वावरम् / 3. क. पुस्तके 'गुणगणा' इति पाठः; भो. पुस्तके तु 'गुणा' एव विद्यते। 4. क. पृथिम्यो। 5-6. भो. पुस्तके 'अ आँ' इति क्रमः / 7-8. ख. पुस्तके 'अर आर' इत्यस्य स्थाने ' आँ' इति अस्ति / ९-१०.भो. पुस्तके अत्र 'ल लो व वाँ' इति-क्रमः /