________________ विमलप्रभायां [ लोकधातुगन्धधूपादिदीपेभिः खानपानादिवाससैः / पूजयित्वा महामुद्रां* गुरौ' ददति सत्सुतः" / इत्येवमादयोऽन्येऽपि पशब्द्या(ब्दा)योगिनावगन्तव्या आगमपाठादिति / एवं टोकायामपि सूशब्दाभिमानना शा(य)लिखितव्यं मयाऽर्थशरणतामाश्रित्येति / अथ येन येन प्रकारेण कुलविद्यासुशब्दाभिमानक्षयो भवति, तेन तेन प्रकारेणार्थशरणतामाश्रित्य बुद्धानां बोधिसत्त्वानां धर्मदेशना देशभाषान्तरेण शब्दशास्त्रभाषान्तरेण मोक्षार्थम / इति मूलतन्त्रानुसारिण्यां लघुकालचक्रतन्त्रराजटीकायां द्वादशसाहस्रिकायां विमलप्रभायां देशकालाध्येषकमूलतन्त्रलघुतन्त्रसम्बन्धोद्देशः / तृतीयः // 3 // (4) देशकाध्येषकसाधनोद्देशः इदानी मञ्जुश्रीनिर्मितयशोनरेन्द्रसूर्यरथदेशकाध्येषकादिसम्बन्धादिना लघुतन्त्रराजं वितनोमीति / इह महाश्रीमति कालचक्रमण्डलगृहे पूर्वद्वा[17b] रावसाने महामणि रत्नमण्डपे महारत्नसिंहासनस्थो देवासुरनागनिर्मितकायैः षण्णवतिमहाराजकुलप्रसूतै15 महारत्नमुकुटबद्धैः कोटिकोटिग्रामाधिपतिभिर्नमस्कृतचरणारविन्दः सर्वतथागतप्रज्ञामूत्तिः सूर्यरथाध्येषितो यशोनरेन्द्रः सूर्यरथमिदमवोचत्-‘साधु साधु सूर्यरथ, येन त्वं ब्रह्मऋषिकुलादीनां सर्वसत्त्वानां सम्यक्सम्बुद्धत्वमार्गलाभाय परमादिबुद्धतन्त्रराजसद्भावं श्रोतुं मत्तः समुद्यतः / तेन साधु ते इदं यत् परमादिबुद्धतन्त्रराजसद्भावं लौकिकलोकोत्तर सिद्धिसाधकं कालचक्रवज्रयोगं त्वया पृष्टं तत्सर्वमहं देशयामि; सङ्गीतिकारकत्वेन 20 त्वमप्येकाग्रमनाः शृणु प्राग्व्याकृततथागताधिष्ठानबलेन लघुतन्त्रराजसद्भावं प्रज्ञोपा यात्मकं योगं' श्र(स्र)ग्धरावृत्तसङ्गीत्या महातन्त्रराजादुद्धार्यमाणम् / सम्यक्सम्बुद्धसुचन्द्रदेशकाध्येषकसम्बन्धेन मया यशो राज्ञे" इति / अथ मञ्जुश्रीभगवानिमितकायो यशोनरेन्द्रो देशकादिसंग्रहवृत्तं प्रथमं परमादिबुद्धात् तथागतेन व्याकृतमाह सर्वज्ञं ज्ञानकायं दिनकरवपुषं पद्मपत्रायताक्षं बुद्धं सिंहासनस्यं सुरवरनमितं मस्तकेन प्रणम्य / पृच्छेद्राजा सुचन्द्रः करकमलपुटं स्थापयित्वोत्तमाङ्गे योगं श्रीकालचक्रे कलियुगसमये मुक्तिहेतोर्नराणाम् // 1 // 1-2. घ. गुरोर्ददति / 3. ख. ०प्य० / 4. ख. वाण / 5. 'मयार्थशरणतामाश्रित्य' इत्यतः घ. पुस्तकं खण्डितम् / 6. स. पुस्तके नास्ति / 7. क. सा. महा। *, ख. सदा मुद्रां /