________________ पटले] देशकाध्येषकमूलतन्त्रलघुतन्त्रसम्बन्धोद्देशः प्रादेशिको न भवति / कोऽपि महाबोधिसत्त्वो युष्माकमनुग्रहार्थी बुद्धाधिष्ठानेनाभूत्, तस्मादस्य पादयोः शरणं गत्वा आद्धिबुद्धतन्त्रराजे लौकिकलोकोत्तरसिद्धिसाधनमार्गाभिषेकाध्येषणं कुरुत" इति ।अथ तेन सागरमतिवचनेन बुद्धाधिष्ठानेन सूर्यरथादयो ब्रह्मऋषयः प्रबुद्धा इदं वचनमाहुः-"साधु साधु सागरमते, येन ते वचनेनास्माकं चित्तप्रबोधोऽभूत्, तस्मादिदानी रत्नत्रयशरणं गत्वा कालचक्रतन्त्रराजे लौकिकलोकोत्तरसिद्धि- 5 साधनमार्गाभिषेकाध्येषणां कुर्य्याः', सकलसत्त्वानां सम्यक्सम्बुद्धत्वलाभायेहैव जन्मनि" इति / एवमुक्त्वा तैः ऋषिभिः ब्रह्मकुले सूर्यरथो राजाऽमन्त्रितः- "हे सूर्यरथ, त्वं वेदादिशास्त्रकपुस्तकसर्वलौकिकलोकोत्तरशास्त्रप्रमेयग्राहकहृदयः, तेनास्माकमध्येषणावचनेन यशोराज्ञोऽध्येषणां कुरु। वयमपि मण्डलपूर्वङ्गमं शरणं गत्वा सर्वेऽध्येषणां करिष्यामः"। * अथ तेन ब्रह्म-ऋषिवचनेन सूर्यरथो रत्नसुवर्णमयैः पुष्पैमण्डलं कृत्वा यशोनरेन्द्रस्य पादमूले रत्नपुष्पाञ्जलिं प्रक्षिप्य जानुयुग्मेन भूगतेन हस्तयुग्मेन शिरसि गतेन ब्रह्मऋषिभिः सार्द्ध यशः पादौ प्रणम्य दक्षिणं जानुमण्डलं पृथिव्यां संस्थाप्य ललाटे करपुटं दत्वा यशोनरेन्द्रमध्येषयति-"देशयतु भगवांस्तन्त्रराजमादिबुद्धम्, यस्मिन् बुद्धत्वाय पञ्चानन्तर्यकारिणोऽपि व्याकृता इहैव जन्मनि वज्रधरभगवता परमाक्षरसुखेन संगृहीता 15 महामुद्रालाभिनो व्याकृताः। इयं षड्द्वादशसाहस्रिकां आदिबुद्धं सुचन्द्रराज्ञस्तथागतेन देशितम् / तदेवाल्पग्रन्थेनादिबुद्धमल्पतन्त्रराजं सङ्गीतिं कृत्वा देशयतु ब्रह्म-ऋषीणां शास्ये(स्ते)२" इति / अथ सूर्यरथाध्येषणं श्रुत्वा ब्रह्म-ऋषीणामधिमुक्तिचित्तवशात् तथागताधिष्ठानबलेन लघुसङ्गीतिकार[17a]कत्वेन स्रग्धरावृत्तः सर्वज्ञदेशकादिसंग्राहकैस्तन्त्रराजं देशयति / 10 . तेषां च सुशब्दवादिनां सुशब्दग्रहविनाशाय अर्थशरणतामाश्रित्य कचिदवृत्तेपशब्दः; कचिद् वृत्ते यतिभङ्गः; कचिदविभक्तिकं पदम् : कचिद्वर्णस्वरलोपः; क्वचिद् वृत्ते दीर्घा ह्रस्वः, ह्रस्वोऽपि दीर्घः; कचित् पञ्चम्यर्थे सप्तमी, चतुर्थ्यर्थे षष्ठी; कुत्रचित् परस्मैपदिनि धातावात्मनेपदम्, आत्मनेपदिनि परस्मैपदम्; कचिदेकवचने बहुवचनम्, बहुवचने एकवचनम्, पुल्लिङ्गे नपुंसकम्, नपुंसके पुल्लिङ्गम्; कचित् तालव्यशकारे दन्त्यमूर्धन्यौ; 25 कचित् मूर्धन्ये दन्त्यतालव्यौ; कचिद् दन्त्ये तालव्यमूर्धन्यौ / एवमन्येऽप्यनुसर्तव्यास्तन्त्रदेशकोपदेशकेनेति / तथा मूलतन्त्रे भगवानाह "सुचन्द्र सर्वबुद्धानां देयं नित्येष्टवस्तुकम् / शिष्येभ्यश्च गुरूणाञ्च भार्यादुहितृपुत्रकम् / / गन्धो भवति मेदिन्यां तोये रूपं रसोऽनले / वायौ स्पर्शोऽक्षरे शब्दधर्मधातूमहानये* / / 30 1250 3. क. भिश्च / 4. घ. पूर्वकं / 1. घ. कुर्मः। 2. ख. शास्ते / *. ख. नवे; घ. नभो।