________________ पटले] 23 247 देशकाध्येषकमूलतन्त्रलघुतन्त्रसम्बन्धोद्देशः कस्माद् ? भगवतोऽपि गर्भोत्पन्नत्वात् / इह मन्त्रनये यदि गर्भोत्पन्नस्तथागतस्याध्येषको न भवति सङ्गीतिकारश्च, तदा शाक्यकुले शुद्धोदननरेन्द्रस्य महामायादेवीकुक्षिसम्भूतः शाक्यमुनिः सर्वज्ञो देशको न स्यात्, गर्भोत्पन्नत्वादिति / अथ कस्यचिद्वचनं प्राक् तेन मारभङ्गः कृतः; बोधिरुत्पादिता तत्सर्वज्ञो धर्मदेशकोऽभूत, पश्चात् परिनिर्वृतस्य पुनर्गर्भावक्रमणाभाव इति वचनात् परमविरोधः, स्वयमसिद्धस्य परसाधकत्वात् / इहादी 5 बुद्धत्वाभावेन' कोऽपि मारभङ्ग [13a] करोति देवासुरमनुष्याणां मध्ये / आद्यभिसम्बुद्धोऽपि न करोति, सर्वावरणाभावात् / युगपच्च न करोति, यस्मिन् क्षणे मारस्तस्मिन् क्षणे बुद्धत्वं न स्यात्, सावरणचित्तात् / यस्मिन् क्षणे बुद्धत्वं तस्मिन् क्षणे मारो नास्ति, निरावरणचित्तादिति / किञ्चान्यत्, इह कर्मभूम्यां भगवतो विना नान्यस्य नारीगर्भजातस्य द्वात्रिंशन्महापुरुषलक्षणान्यशीत्यनुव्यञ्जनानि द्वात्रिंशदूर्णापरिमण्डलं षडभिज्ञो 10 भवति, तस्मात् मारो नाम सत्त्वानां संसारचित्तं वासनामलः, बुद्धत्वं नाम संसारवासनारहितं चित्तम् / तथा च भगवानाह प्रज्ञापारमितायाम्-"अस्ति तच्चित्तं यच्चित्तम- चित्तम्" इति (अष्ट०, पृ० 3) / प्रकृतिप्रभास्वरं तदेव संसारवासनारहितम्, अतो मारः समलं चित्तम्, बुद्धो विगतमलं चित्तम् / इह बुद्धस्य बाह्ये यो मारभङ्गः स सत्त्वानां स्वप्नवत् स्वचित्तप्रतिभास इति / परमार्थतस्तथागतहृदयं पञ्चमे पटले 15 विस्तरेण वक्तव्यमिति / ___इह संसारे सत्त्वाथार्य बुद्धबोधिसत्त्वानां प्रवेशः संसारिणामवाच्यः / उक्त यम- दूतैर्यमराज्ञा च सत्त्वार्थ नरकप्रवेशकाले मम लोकेश्वरस्य स्तोत्रम् "ये मुक्ता भवबन्धनैरपि भवं गृह्णन्ति सत्त्वार्थिनः ___ कालात् कर्मफलं त्यजन्ति न हि तत् शून्यार्थसन्देशकाः / 20 संज्ञा नानलदग्धचित्तकलुषाः सम्यक् कृपााः सदा तान् सत्त्वार्थरतानतर्कचरितान् बुद्धान् नमामा(मो) वयम् // " इति / अतः सत्त्वार्थं प्रति बुद्धबोधिसत्त्वानां गर्भप्रवेशो नरकगमनं वा बालजनवितर्कयितं न शक्यते / एकोऽपि बोधिसत्त्वो दशपारमितानिर्यातो दशभमीश्वरो दशवशिताप्राप्तः साहस्रमहासाहस्र लोकधातावनेकनिर्माणकायैर्बोधिसत्त्ववैनेयानां सत्त्वानां बोधिसत्त्व- 25 धर्म देशयति, न स महाबोधिसत्त्वोऽनेकः / एवं बुद्धो भगवान् पूर्वप्रणिधानबलेन पुण्यज्ञानसम्भारपरिपूर्णः सर्ववैशारद्याद्यैश्वर्यगुणसम्पन्नो बुद्धक्षेत्रे त्रैसाहस्रमहासाहस्रषु लोकधातुष्वनन्तानन्तमायानिर्माणकार्यनिरावरणैरनन्ता[ 13b]नन्तसत्त्वानामनन्तानन्तरुतैर्नानाध्येषकैरध्येषितः सन् सर्वज्ञभाषया सर्वसत्त्वरुतप्रवतिन्या लौकिकलोकोत्तरं धर्म देशयति / न (स) सर्वज्ञोऽनेकः / यथा कश्चिन्मायापुरुषोऽनेकमायारूपाणि निर्मापयति, 30 तेन तानि निर्मितरूपाणि वृक्षान्युन्मूलयन्ति, पर्वतशिखराण्यपि.चालयन्ति, महादेव रूपा 1. ख. ङ. बुद्धत्वभावेन, नास्ति | 3-4. ख. न स / क. बुद्धलाभेन। 2. घ. पुस्तके 'महासाहो' इति 5. क. सहदेव; भो. Lha Chen Po (महादेव) /