________________ विमलप्रभायां [लोकधातुअनागतेऽध्वनि ब्रह्म-ऋषीणां वैनेयार्थ सम्भल विषयादि षस्म(षण्ण)वतिग्रामकोटि- . निवासिनां सर्वसत्त्वानां महायानमार्गलाभायेति / अतो द्वादशसाहस्रिकात् परमादिबुद्धात् लघुतन्त्रसङ्गीतिकरणाय मञ्जुश्रीस्तथागतेन व्याकृतः, अनागतेऽध्वनि सार्द्धत्रिकोटोनां ब्रह्म-ऋषीणां कलापग्रामनिवासिनां वैनेयार्थम् / अहमपि लोकेश्वरो लघुतन्त्रे टोकाकरणाय व्याकृतोऽन्यपि (न्येऽपि) त्रयोविंशति क्रोधराजबोधिसत्त्वाः षण्णवतिग्रामकोटिनिवासिनां सर्वसत्त्वानां निर्माणकायेन लघुतन्त्रदेशकाः व्याकृता महायानमार्गलाभायेति / महायानमार्ग इति मञ्जुश्रियो वज्रकुलेन कलशगुह्यप्रज्ञाज्ञानाभिषेकः, तस्य लाभाय महावज्रयान'मागलाभायेति / अतः कलशगुह्यप्रज्ञाज्ञानाभिषेकतः सर्व वर्णानामेककल्को भवति। स कल्कोऽस्यास्तीति कल्की, तस्य गोत्रं कल्किगोत्रम् / 10 वज्रकुलाभिषेकतः सकलमन्त्रिणामिति नीतार्थः / एवं मञ्जुश्रीर्य(य)शः कल्की व्याकृ तोऽस्य यशसो गोत्रेऽहं लोकेश्वरो द्वितीयः कल्की व्याकृत इति / एवं यथानुक्र[12b] मेण यमान्तकादयो दशक्रोधराजाः क्षितिगर्भादयस्त्रयोदशबोधिसत्त्वाः, तेषां त्रयोदशबोधिसत्त्वानां यमान्तकादिक्रोधराजानामन्तरान्तरेण व्याकृताः; निर्माणकायेन षण्णवति कोटिग्रामनिवासिनां राजानः सकलसत्त्वानां तथागतधर्मप्रवर्तकाः, म्लेच्छादिकुधर्मवि15 ध्वंसका द्वात्रिंशन्महापुरुषलक्षणाः पञ्चाभिज्ञाद्यैश्वर्यगुणपरिपूर्णा इति। अतः परमादि बुद्धाल्लघुतन्त्रसङ्गीतिकरणाय मञ्जुश्रीव्याकरण मम टोकाकरणाय च यमान्तकादीनां धर्मदेशनायेति / इति मूलतन्त्रानुसारिण्यां द्वादशसाहस्रिकायां लघुकालचक्रतन्त्रराजटोकायां विमलप्रभायाम् अभिधेयाभिधानसम्बन्धप्रयोजनप्रयोजनसंवीक्ष्य भगवतस्तन्त्रदेशनोद्देशो द्वितीयः // 2 // (3) देशकाध्येषकमूलतन्त्रलघुतन्त्रसम्बन्धोद्देशः **इदानीं पुनर्देशका ध्येषकसम्बन्धोऽत्रोच्यते / कदाचित् पूर्वापरतन्त्रटीकाऽश्रुतस्य वचनं भविष्यति / इह ननु वज्रयाने अडकवतीनिवासी महायक्षाधिपतिर्महाबो धिसत्त्वो वज्रपाणिस्तथागतस्याध्येषकः सङ्गीतिकारश्च, कथं सम्भलविषयकलापग्रामा 25 धिपतेः सूर्यप्रभस्य विजयादेवीगर्भसम्भूतः सुचन्द्रो राजाध्येषकः; कचित् तन्त्रान्तरे न श्रूयते, न व्याकृत इति* ; परस्परं देशकाध्येषकसम्बन्धो विरुद्धः ? तस्मादुच्यते / इह हि यत् केनचिद्वक्तव्यं मन्त्रनये गर्भोत्पन्नस्तथागतस्याध्येषको न भवति, तन्न; 1. क. ख. महायान / 2. घ. पुस्तके नास्ति / 3. घ. कृतो। 4. क.. मन्तरारेण / 5. घ. पुस्तके अत्र 'अभिधेयादिति वचनात्' अन्तः कृतः; भो. पाठेऽपि सम्पूर्ण वाक्यमस्ति / 6. ख. ०शको / **-*. घ. पुस्तके नास्ति; अथ च भो. आदिषु अस्ति। .