________________ 21 T246 पटले ] तन्त्रदेशनोद्देशः सहजभेदेन षोडश तत्त्वानि' / गर्भजानां सावरणानि षोडशार्द्धार्द्धबिन्दुमोचनत्वादिति, बुद्धानां निरावरणानि षोडशर्वार्द्धबिन्दुधरत्वादिति / षोडश शून्यतेति | कृष्णपक्षः सूर्यः प्रज्ञा / षोडश करुणेति / शुक्लपक्षश्चन्द्रमा उपायः / शुन्यतायास्त्रयो भेदाः-शून्यता महाशून्यता परमार्थशून्यता चेति / तत्र शून्यता 5 पञ्चस्कन्धशून्यता, कृष्णप्रतिपदाद्याः पञ्च तिथयः। महाशून्यता पञ्चधातुशून्यता, षष्ठयाद्याः पञ्च तिथयः / परमार्थशून्यता पञ्चेन्द्रियशून्यता, एकादश्याद्याः पञ्च तिथयः / तेन पञ्चदश तिथयः पञ्चदशशून्यता, अमापर्यन्तम् / अमान्तशुक्लप्रतिपत्प्रवेशाद्यौ(प्रवेशयो)मध्ये षोडशी शून्यता सर्वाकारा / एवं करुणा त्रिधा-सत्त्वावलम्बिनी धर्मावलम्बिनी अनवलम्बिनी चेति / तत्र 10 सत्त्वावलम्बिनी शुक्लप्रतिपदाद्याः पञ्च तिथयः / धर्मावलम्बिनी षष्ठ्याद्याः पञ्च तिथयः / अनावलम्बिनी एकादश्याद्याः पञ्च तिथयः, पूर्णिमापर्यन्तम् / पूर्णिमान्तकृष्णप्रतिपत्- प्रवेशाद्यौ(प्रवेशयो)मध्ये षोडशी करुणा। अनयोरकेत्वं षोडशशून्यताषोडशकरुणात्मकाभिधेयं तस्य वाचकमिति / लौकिकलोकोत्तराभिषेका इति / लौकिकास्तावत् उदकं मुकुटः पट्टं वज्रघण्टा 15 महाव्रतं नाम अनुज्ञा कलशो गुह्यं प्रज्ञा ज्ञानमिति / गर्भजानां लोकसंवृत्या दशाभिषेकाः -कायवाञ्चित्तज्ञानधातुस्कन्धायतनकर्मेन्द्रियादिपरिशुद्धयेति / लोकोत्तर एकादशतम. श्चतुर्थ(ः) तत् पुनस्तथेति नियमात्, महामुद्रा-परमाक्षरज्ञानलक्षणो गुरुवक्त्रं कायवागादिनिरावरणत्वेन शोधक इति / कर्मज्ञानमहा[12a]मुद्रासिद्धिरिति / कर्ममुद्रा स्तनकेशवती। ज्ञानमुद्रा 20 स्वचित्तपरिकल्पिता / महामुद्रा विकल्परहिता प्रतिसेनास्वरूपिणोति / आसां त्रिविधा सिद्धिः-कामावचरा कममुद्रासिद्धिः, रूपावचरा" रूपभवभावलक्षणा ज्ञानमुद्रासिद्धिः', भावाभावरहिता सर्वाकारवरोपेता महामुद्रासिद्धिरिति / एषां चतुःकायादीनां लौकिकलोकोत्तरमार्गप्रकाशक(:) परमादिबुद्ध(:)मि(इ)ति / एवमुक्तक्रमेण लोकधात्वध्यात्माभिषेकसाधनज्ञानपञ्चपटलात्मकम्, पञ्चकल्पा- 25 त्मकं वा नरादिसकलसतानां सम्यक्सम्बुद्धत्वलाभाय सन्देशितम् / समिति सम्यक्प्रकारेण, (न) वज्रपदगुप्तप्रकारेणेति / अतः परमादिबुद्धाल्लघुतन्त्रसङ गोतिकरणाय मञ्जश्रियस्तथागतव्याकरणं ममैव च टीकाकरणाय, यमान्तकादीनां तन्त्रदेशनाय च / 1. घ. षोडशकरुणेति / 2-3. घ. पुस्तके 'गर्भजानां' इत्यारभ्य 'षोडशकरुणेति' पर्यन्तं पाठः नास्ति, किन्तु भो. क. आदिषु अस्ति / 4. ख. ०शम | 5-6. घ. पुस्तके इदं वाक्यं नास्ति / 7. ख. पुस्तके 'न' इति अधिकः /