________________ विमलप्रभायां [लोकधातु___ उद्घाटितबुद्धरत्नकरण्डकमिति बुद्धरत्नं परमाक्षरसुखं करण्डकं वज्रमणि-' . पद्ममिति बुद्धरत्नकरण्डकम्, तमेवोद्घाटितं येन तन्त्रराजेन तदुद्घाटितबुद्धरत्नकरण्डकमिति / लौकिकलोकोत्तरसत्याश्रितमिति / लौकिकसत्यं मण्डलचक्रविकल्पभावना लौकिकसिद्धिसाधनमुत्पत्तिक्रमेणेति / लोकोत्तरसत्यं धूमादिनिमित्तेन निर्विकल्पचित्तेन 5 उत्पन्नक्रमेण महामुद्रासिद्धिसाधनमिति; उत्पन्नक्रमः सहजो निर्विकल्पः सर्वाकारो मुखभुजवर्णसंस्थानकल्पनारहित इति; अनयोः सत्ययोराश्रितं लौकिकलोकोत्तरसत्याश्रितमिति मार्गद्वयदर्शनादिति / चतसृभिरभिसम्बोधिभिश्चतुर्वज्रः विशुद्धमिति। एकक्षणाभिसम्बोधिः, पञ्चाकाराभिसम्बोधिः, विंशत्याकाराभिसम्बोधिः, मायाजालाभिसम्बोधिः, ए(आ)भिः 10 परिशुद्धं गर्भजोत्पत्तिक्रमेण धूमादिबिम्बोत्पन्नक्रमेण, एवं चतसृभिरभिसम्बोधिभिः परिशुद्धमिति / . चतुःकाय-षट्कुल-द्वादशसत्य-षोडशतत्त्व-षोडशशून्यता-षोडशकरुणा -लौकिकलोकोत्तराभिषेककर्मज्ञानमहामुद्रासिद्धिमार्गप्रकाशकमिति / चतुःकायाः। शुद्ध-धर्म-सम्भोग-निर्माणा इति गर्भजस्य तुर्यसुसु(पु)प्तिस्वप्नजाग्रदव15 स्थालक्षणाः / ते च बुद्धानां निरावरणा इति / षट् कुलानोति / अक्षरसुखं ज्ञानधातुः, विज्ञानमाकाशधातुः, संस्कारो वायुधातुः, वेदना तेजोधातुः, संज्ञा तोयधातुः, रूपं पृथ्वीधातुरिति गर्भजानां सावरणानि; " बुद्धानाम् निरावरणानीति / द्वादश सत्यानीति / अविद्या-संस्कार-विज्ञान-नामरूप-षडायतन-स्पर्श-वेदना-तृष्णा20 उपादान-भव-जाति-जरामरणानीति द्वादशसत्यानि गर्भजानां सावरणानि, बुद्धानां निरावरणानीति। द्वादशसंक्रान्तिभेदेन प्राणवायुप्रवाहात् सावरणानि गर्भजानाम्, बु[iibjद्धानां निरावरणानि, द्वादशाङ्गनिरोधादिति / षोडश तत्त्वानोति / निर्माणकायो निर्माणवाक् निर्माणचित्तं निर्माणज्ञानम्, सम्भोगकायः सम्भोगवाक् सम्भोगचित्तं सम्भोगज्ञानम्, धर्मकायो धर्मवाक् धर्मचित्तं 25 धर्मज्ञानम्, सहजकायः सहजवाक् सहजचित्तं सहजज्ञानमिति आनन्द-परम-विरम 1. भो. पुस्तके 'मणि' इति नास्ति / 2. क. बुद्धरत्नकम् / 3. घ. परिशुद्धमिति / 4-5. क. पुस्तके तु पूर्व करुणातः"प्रकाशकमिति यावत् पाठ एतादृशः'करुणात्मकाभिधेयवाचकम् / लौकिकदशलोकोत्तरेकादशाभिषेकप्रकाशकम् / कर्ममद्राज्ञानमुद्रामहामुद्रालौकिकलोकोत्तरसिद्धिप्रकाशकम्' इति / द्वावाप्यतुलनीयौ। 6. घ. सावरणानि षट् कुलानि / 7. घ. द्वादशसंक्रान्त्युत्तरं प्राणभेदेन /