________________ पटले तन्त्रदेशनोद्देशः अतो नामसङ्गोतिकाध्येषणवचनात् सर्वतथागतैर्मन्त्रयानं देशितमिति / इह यत्समाजे दीपङ्करशाक्यमुनिमध्ये न केनचित् तथागतेन मन्त्रयानं देशितम्' (इति),२ तत् तेन कालेन तेन समयेनेति / आर्यविषयधर्मदेशनाकालेन, आर्यविषयपर्षदो न देशितम्, चतुर्वर्णाभिमानाभव्यसत्त्वाशयवशादिति। न पुनरन्यकालेनान्यविषये लोकधातुपर्षदि न देशितमिति / अतस्तथागतप्रवचनात् / सर्वतथागता यानत्रयदेशकाः, अन्यथा 5 सर्वज्ञताभावो वज्रयानादेशकत्वादिति / अतः सर्वे तथागता यानत्रयदेशकाश्चतुरशीति(10b) सहस्रधर्मस्कन्धदेशकाः सत्त्वाशयवशादिति, अतो बज्रधरज्ञानकायसाक्षिभूतया नामसङ्गीत्यालिङ्गितमिति / सर्वतन्त्रराजेषु वज्रपदसाक्षिभूतमिति / इह वज्रयाने सत्त्वाशयवशेन सर्वतन्त्र- राजेषु वज्रपदं गुप्तम्, चतुर्थं तत्पुनस्तथेति तथागतवचनात् / चतुर्थं तृतीयं न भवति, 10 चतुर्थमिति वचनात्, तत्पुनस्तथेति वचनात् / प्रज्ञाज्ञानं तदेव चतुर्थमतो भगवतो वचनात् / वज्रपदं गुप्तमिति सर्वतन्त्रराजेषु वज्रपदं प्रकटं न भवति, गुरुपारम्पर्यक्रमेणावगन्तव्यम्; तन्त्रं तन्त्रान्तरेण बोधव्यमिति तथागतवचनात् / इह मन्त्रनये द्विधा वज्रपदम्-एक लौकिकसंवृत्या द्वितीयं परमार्थतः। तयोर्लोकसंवृत्या वज्रपदं मास्णादौ समयसिद्धिदायकम्, परमार्थसत्येन वज्रपदं चतुर्थं तत्पुनस्तथा महामुद्रासिद्धि- 15 फलदायकमिति / अत एवास्मिन्नादिबुद्धे वज्रपदं प्रकटमुद्देशनिर्देशप्रतिनिर्देशैर्भगवता प्रकाशितम् / अस्यैव साधनाय महामुद्राभावना धूमादिनिमित्तमार्गः प्रकाशितः / 245 शून्ये एकाग्रमनः कृत्वा दिनमेकं परीक्षयेदिति / अतो भगवतो वचनात् परमादिबुद्धे वज्रपदं महामुद्राभावनामार्गो धूमादिकः प्रकटः, न गुरुपारम्पर्यक्रमेणागतः, नाधिष्ठानि(ष्ठित)* गुर्वाज्ञयेति / अस्य च मार्गस्य प्रत्ययोऽस्ति, अनि शं दिनमेकं 20 परीक्षयेदिति भगवतो वचनात् / इह न चान्यन्मन्त्रादिसाधनं धूमादिनिमित्तं विहाय दिनैकेन योगिना परीक्षणीयम् / निमित्तमपि त्रिधा-आदिनिमित्तम्, मध्यनिमित्तम्, अन्तनिमित्तञ्चेति / आदिनिमित्तं धूमादिमार्गः, षडङ्गयोगेन विश्व(म्ब)निष्पत्तिरक्षण(रक्षरक्षण) लाभः। मध्यनिमित्तं परमाक्षरक्षणैरष्टादशशतैरादिभूमिलाभः, पञ्चाभिज्ञाऽदृष्ट्वा(ष्टा) र्थसन्दर्शनं लौकिकसिद्धिप्राप्तिरिति / अनिमित्तं (अन्तनिमित्तं) बुद्धत्वं 25 वज्रधरत्वमेकविंशतिसहस्रैः षट्शताधिकैः परमाक्षरक्षणैादशदशभूमिलाभात् महामुद्रासिद्धिरिति एतद् वज्रपदादिकं [11a] निमित्तपूर्वकं प्रकटं तन्त्रराजे परमादिबुद्धे भगवता देशितम् / अतः सर्वतन्त्रराजेषु वज्रपदसाक्षिभूतं तन्त्रं तन्त्रातरान्वेषकानामिति / 1. ङ. न देशितम् / 2. भो. Ses (इति)। 3. क. पुस्तके 'सहस्र' शब्दो नास्ति / 4. क. तन्त्रानुसारेण; भो. Gyud gsan Dag Gis (तन्त्रान्तरेण)। 5. भो. Byin Gyis brLbs Pa (अधिष्ठितं)। 6. ख. नि०। 7. ख. ०क्षरक्षण; भो. hGur Ba Mod Pahi sKad Cig(अक्षरक्षण)। 8. भो. अदृष्टार्थ / 9. भो. अन्तनिमित्तं /